________________
१५१
श्रीप्रभाचन्द्राचार्यविरचिता असौ विश्वासतस्तस्य, वयस्यति तथा नृपः । तं विना न रतिस्तस्य, तं बहूतैर्यथा क्षणम् ॥४७॥ सभायामुपविष्टस्य, मण्डलेशस्य मूरिणा । मुखेन तिष्ठतो गोष्ठयां, राजदूतः समाययौ ॥४८॥ प्रवेशितश्च विज्ञप्ते, प्रतीहारेण सोऽवदत् । माचीनरूढितो मत्या, गृह्यतां राजशासनम् ॥४९॥ असिधेनुं च भूपोऽथ, बद् गृहीत्वाऽऽशु मस्तके । ऊच भूयाय संयोज्य, वाचयामास च स्वयम् ॥५०॥ इति कृत्वा विवस्यो, वक्तुमप्यक्षमो नृपः । विलीनचित्तः श्यामाङ्गो, निःशब्दाषाढमेघवत् ॥५१॥ पृष्टश्चित्रान्मुनीन्द्रेण, प्रसादे स्वामिनः स्फुटे । आयाते प्राभृते हर्षस्थाने कि विपरीतता ? ॥५२।। तेनोचे मित्र! कोपोऽयं, न प्रसादः प्रमोर्ननु । प्रेष्यं मया शिरश्छित्वा, स्वीयं शस्त्रिकयाऽनया ॥५३॥ एवं कृते च वंशे नः, प्रभुत्वमवतिष्ठते । नो चेद् राज्यस्य राष्ट्रस्य, विनाशः समुपस्थितः ॥५४॥ शस्त्रिकायामथैतस्या, पणवत्यदर्शनात् । मन्ये षण्णवतेः सामन्तानां क्रुद्धो धराधिपः ॥१५॥ सर्वेऽपि गुप्तमाहाय्य, सूरिभिस्तत्र मेलिताः । तरीभिः सिन्धुमुत्तीर्य, सुराष्ट्रां ते समाययुः ॥५६॥ घनागमे समायाते, तेषां गतिविलम्बके । विभज्य षण्णवत्यशैस्तं देशं तेऽवतस्थिरे ॥५७।। राजानस्ते तथा सूरा वाहिनीव्यूहद्धिना । राजहंसगुहा भूयस्तरवारितरङ्गिणा ॥५८॥ बलमिद्धनुरुल्लासवता चाशुगभीभृता । समारुध्यन्त मेघेन बलिष्ठेनेव शत्रुणा ॥१९॥ निर्गमय्यासनादुनमुपसर्गेमुपस्थितम् । पापुर्घनात्ययं मित्रमिवाब्जास्य विकाशनम् ॥६॥ परिपवित्रमवाक्शालिः, प्रसीदत्सर्वतोमुखः । अभूच्छरहतुस्तेषामानन्दाय सुधीरिव ॥६१॥ सूरिणाऽथ मुहद्वाजा, भयाणेऽजलप्यत स्फुटम् । स माह शम्बलं नास्ति, येन नो भावि शं बलम् ॥६२॥ श्रुत्देति कुम्भकारस्य, गृह एकत्र जग्मिवान् । वहिना पच्यमानं चेष्टकापाकं ददर्थ च ॥६॥
"Aho Shrutgyanam"