________________
●
१० यागमम्
कालिकाचार्यकथा |
सागरः प्राह प्रत्यक्ष, धर्माधम स्त एव यत् । सन्त्येकेऽत्रैव सम्राजस्तद्भृत्याश्वापरे नराः ||७१ || इतश्च पश्चाद् दुः शिष्यैः पृष्टः शय्यातरोऽवदत् । rodisi भो ! स्वयं लुप्तवा, दुष्टाः । पृच्छत मां तु किम् ? ॥ ७२ ॥ त्यक्तास्तद्गुरुभिर्युयं, यात दृष्टिपथान्मम ।
1
asu star aafar, शय्येशं जगदुः पुनः ॥ ७३ ॥ दयां कृत्वैकवारं नः, शाधि याताः क सूरयः । श्राद्धोऽपि तत्र तान् पैषीद्, ज्ञात्वा सम्यगुपस्थितान् ॥७४॥ आगच्छतश्व तान् श्रुत्वा, किमुपैति पितामहः । इति हृष्टः प्रशिष्योक्तः, सूरिः स्माहापि मे श्रुतम् ||७५ || दृष्ट्वा तानायतः साधून भ्युत्तस्थौ च सागरः । तैरूने साधुसंघोऽयं, गुरवस्तु पुरागताः ॥७६|| कालिकार्य बहिर्भूम्यागतमभ्युत्थितान् मुनीन् । ऊचे प्रशिष्यः किमिदं तेऽप्यूचुर्गुरवो सभी ॥७७॥ क्षमfearsaatयन्तं, सागरं स्माह सूरिराट् । मानवताप्सीने ते भावदोषः किन्तु प्रमत्तता ॥७८॥ वालुकामस्थदृष्टान्तादुत्तायस्य श्रुतस्मयम् । विनीतशिष्यसंवीता विजहुः मूरयोऽन्यतः ॥ ७९ ॥
( 2 )
अथान्यदा विदेहेषु, श्रीमन्धरसन्निधौ । निगोदजीवव्याख्यानं श्रुत्वा शक्रोऽभ्यधादिति ॥ ८० ॥ एवं स्वामिन्! निगोदानां, व्याख्यां किं कोऽपि भारते । बेतीदानीं जिनोऽथाऽऽख्यत्, कालकार्या विदन्ति ताम् ॥ ८१ ॥ आगत्य कौतुकाच्छक्रः, कृत्वा वृद्धद्विजाकृतिम् । नवाप्राक्षीनिगोदाssख्यां, मभुवाsse यथातथम् ||८२|| संख्यातीताः सन्ति गोला गोलेsसंख्या निगोदकाः । एकैकस्मिन् निगोदेऽथ, सिद्धेभ्योऽनन्तजन्तवः ॥ ८३ ॥ इत्यादि सूरिणाऽऽख्याते, पुनः पप्रच्छ वासवः । प्रार्थयेऽहं तदाख्याहि, कियदायुर्मम प्रभो ! ॥८४॥ सूरिज्ञानोपयुक्तोऽभूद् यावद् द्वे सागरोपमे । इन्द्रस्त्वमिति सूर्युक्ते, शक्रः स्वं रूपमाश्रयत् ॥ ८५ ॥
PI
३६
" Aho Shrutgyanam"
१४१