________________
१४०
श्री विनयचन्द्रविरचिता
ज्ञात्वाऽऽगतानथो सूरीन् ससंघः पार्थिवोऽभ्यागत् । वेशिता विस्तराद् राज्ञा, ते चैत्यानि ववन्दिरे ॥५५॥ शातवाहन राजाssधैः सेव्यमानेषु तेष्वथ । क्रमात् पर्युषणा प्राप्ता, राजोक्ताः सुरयस्ततः ॥५६॥ नमस्यशुद्धपश्चम्या, शक्रयात्रा भवत्यतः ।
शक्रोऽनुगम्यो लोकानुवृत्त्या भावी मयाऽपि तत् ॥५७॥ विस्तर चैत्यपूजादि, कर्त्तुं नात्र पार्यते । पर्युषणास्तु तत् षष्ठ्यामित्युक्ते सूरयोऽब्रुवन् ||५८|| सूर्योsप्युदेत्यपरस्यां मेरुचूला चलत्यपि । न तु पर्युषणा राजन् ! ते पञ्चमीनिशाम् ॥५९॥ चतुर्थ्यामस्तु राज्ञोचे, श्रीसंघानुज्ञया ततः । पर्युषणां चतुर्थ्यां ते, चक्रुः कालकसूरयः ||६०|| पूर्णिमास्याश्चतुर्दश्यां चतुर्मासान्यथाययुः । पाक्षिकाणि चतुर्दश्यां पुराऽप्यासन यचिरे ॥ ६१ ॥ तं पक्खियचुम्मीए महानिसीहे दसासुयक्खन्धे । भणियं चउदसीए, समराइ फुडं चेव ||६२|| राजानुग्रrोऽयं मे, नन्दीश्वर तपः कृताम् । राझीनां पारणे मावि, यत् साधुत्तरवारणम् ||३२|| तत्राहि चातुवर्षे यत्, पूज्यन्ते साधवो जनैः । तत्र देशे महत्तस्तत् साधुपूजालयोत्सवः ||६४||
( ४ )
$
अथ कर्म्माज्जातान् शिष्यानुल्लण्ठचेष्टितान् । ज्ञात्वा तेषु च सुप्तेषु, शज्जे ( ये ) शं सूरयोऽब्रुवन् ||६५|| पौत्रसागरचन्द्राऽऽख्यसूरिपार्श्वे ब्रजाम्यहम् । निर्बन्धाः शिष्यपृच्छायां त्वं तान् निर्भर्त्स्य साधयेः ||६६|| इत्युक्त्वा ते ययुस्तत्र, वृद्धः कोऽपीत्यवज्ञया । अनभ्युत्थाय व्याख्यान्ते, प्रशिष्येणेति जल्पिताः ||६७|| की ममाss ! व्याख्यानं भव्यं चेत्याह सूरिराट् । किञ्चित् पृच्छेति तेनोक्ते, प्रपच्छाऽनित्यतां विभुः ||६८|| सागरः माह नो धर्मे, विना किञ्चिदिह स्थिरम् । धीमतां वत् स एवा इत्युक्ते गुरवोऽब्रुवन् ॥ ६९ ॥ नास्ति धर्मोऽध्यक्ष[ ? ] मानातीतत्वाच्छशशृङ्गवत् । तदभावे नानुमानात्, तदलम्भत चिकीर्षया ॥ ७० ॥
"Aho Shrutgyanam"