________________
१३८
श्रीविनयचन्द्रविरचिता
स्वामिमसादे कृष्णाऽऽस्य:, किं त्वं राजाऽप्युवाच तम् । न प्रसादः किन्तु कोपो, यतो यस्मै स कुप्यति ॥२४॥ नामाकं प्रेषयत्यस्मै, क्षुरी दुर्लङ्घशासनः । मर्त्तव्यं तन्मयाऽवश्यं, कुद्धः स्वामी कुतोऽप्यसौ ॥२५॥ रुष्टस्तवैवाचार्योक्ते, प्राह राजाऽन्यशाखिनाम् । रुष्टः पञ्चनवत्या यत्, पण्णवत्यङ्किता क्षुरी ॥२६॥ तानप्याहय सूर्युक्ते, तानाहास्त नृपान् नृपः । तेऽथाऽऽचार्याऽऽज्ञया चेलुः, सुराष्ट्रराष्ट्रामाययुः ॥२७॥ तत्रातिकान्तवर्षास्ते, प्रोक्ताः कालकसूरिभिः । किमपास्तोधमा यूयं, तेऽप्यूचुः कृत्यमादिश ॥२८॥ सूरिः प्रोवाच गृहीध्वं, मालबोजयिनी यतः । निर्वाहस्तत्र वो भावी, तेऽचोचनास्ति शम्बलम् ॥२९॥ चूर्णेन हेमाबाई, कृत्वा भूरिभिरप्पितम् । यथेच्छ स्वर्णमादाय, चेलुस्ते मालवान् प्रति ॥३०॥ लादिदेशानादाय, जग्मुर्मालवसीमनि । तच्च ज्ञात्वा गर्दमिल्लोऽभ्यमित्रीणोऽभवद् बलैः ॥३१॥ घोरे मवृत्ते सङ्घामे, द्वयोरप्यथ सैन्ययोः । अभाजि शाखिसैन्योधैर्गर्दभिल्लचमूः क्षणात् ॥३२॥ गलोपरोधसजोऽस्थान्मालवेन्द्रः पुरी निजाम् । वेष्टयित्वा शाखिनोऽपि, तस्थुगुं ज्ञयाऽथ ताम् ॥३३॥ युद्धेऽनिशं जायमाने, शून्ये प्राकार एकदा । तृपैः पृष्टा शून्यहेतुमादिशनिति सूरयः ॥३४॥ अद्याष्टम्यां तिथावेष, विधां जपति गर्दभीम् । तां पश्यद्भिस्तदादेशात्, तैदृष्ट्वाऽऽख्यायि सूरये ॥३५।। सरिः पाहाऽऽस्य जापान्ते, गर्दभी भुं करिष्यति । तच्छ्रुत्वारिद्विपादादि, वान्तरक्तं पतेद् भुवि ॥३६॥ विक्रोशीमयावं तत, सर्वामादाय वाहिनीम् । योधानां च शतं साष्टं, दत्य मे शब्दवेधिनाम् ॥३०॥ तथैव सर्व तैश्चक्रे, योधान्चुश्च सूरयः । यदैषा स्फारयत्यास्यं, भुं का भवद्भिस्तदा ॥३८॥ अकृताऽऽरावमेवाशु, पूरणीयं शरात् करैः ।
ततो व्यात्तं तया वक्त्रं, घरैः पूर्ण तदैव तैः ॥३९॥ युग्मम् ।। ५ • मापाचं ° DI • दिनीवृतो लात्वा ज • P१७ योधमूचु • P1 ८ ततस्तैप्तिस्तत्कालं तस्याः पूर्व मुखं श• P!
"Aho Shrutgyanam"