________________
कालिकाचार्यकथा |
विहरन् कालकाचार्य:, समत्रा सरदन्यदा । गर्दमाधिष्ठिताया उज्जयिन्याः पुरो बहिः ||८ ॥ राजपाठ्यां गतोऽन्ये राजाऽपश्यत् सरस्वतीम् । साध्वीं साध्वीवृतां रूपवतीं बाह्यभुवं गताम् ॥९॥ कामार्त्तः सोऽथ तां दृष्ट्वा, साध्वीं स्वान्तःपुरेऽक्षिपत् । हाँ भ्रातः ! कालकाचार्य !, रक्ष मामिति वादिनीम् ||१०|| सूरिभिः बहु मङ्गीभिस्तथा संवेन मन्त्रिभिः । प्रधानैर्भणितोऽप्येष यावत् तां मुमुचे नहि ||११|| वदा संघसमक्षं स प्रतिज्ञां सूरिग्रहीत् । नोन्मूलयामि चेन्मूलाद्, राज्यादेनं नृपोऽधमम् ॥१२॥ संघादिप्रत्यनीकानां गतिं प्राप्नोम्यहं तदा । गच्छे नियोज्य गीतार्थ, सूरिरेवमचिन्तयत् ॥ १३ ॥ नृपः स्वभावात् प्रौढोऽसौ गर्दभीविद्यया बलम् । उच्छेद्यस्तदुपायेनेत्युन्मत्त इव सोऽभ्रमत् ||१४|| यदि गर्दभिल्लो राजा, ततोऽपि किमतः परम् । यद्वाऽस्यान्तःपुरं रम्यं ततोऽपि किमतः परम् ||१५|| raiser विषयो रम्यस्ततोऽपि किमतः परम् । सुनिविष्टा पुरी यद्वा ततोऽपि किमतः परम् ॥१६॥ यदि वाजिनः सुवेषस्ततोऽपि किमतः परम् । यद्वा भ्रमाम्यहं भैक्षं ततोऽपि किमतः परम् ||१७|| यद्वा सू(शु) न्यगृहे स्वप्नं, ततो [sपि] किमतः परम् 1 इत्याद्यलीकं जल्पन्तं, सूरिं दृष्ट्वा जनोऽब्रवीत् ||१८|| far भूपं प्रापितः सूरिtea येन दुर्दशाम् । श्रुत्वा च घिर (क) क्रियां राज्ञो व्यज्ञापि सचिवैः पुनः ||१९|| प्रसीद देव ! सुतां व्रतिनीं स्नेहवर्जिताम् । साध्वीविध्वंसश्चात्र, दुर्यशोमुत्र दुर्गतिः ||२०|| नृपः क्रुद्धोऽथ तानूचे, सि(शि) क्षयध्वं पितॄन निजान् । dsथ तूष्णीं स्थितास्तच, श्रुत्वाऽऽचार्योऽपि निर्ययौ ॥२१॥ यान् प्रतीच्यां शककूलं, कूलं माप क्रमात् प्रभुः । आवर्जयच्च मन्त्राद्यैस्तत्रैकं शाखिनं नृपम् ||२२|| शाखानुशाखी तत्स्वामी, तद्दृतोऽन्येद्युराययौ । समय प्राभृतं चाऽगात्, सरिस्तु नृपमत्रवीत् ||२३||
२ नास्तीद नवमपर्यं P प्रतौ । ३ रक्ष मामिति जल्पन्तीं हा भ्रातः । कालकप्रभो P] ४ तवा (स्ता) बब D प्रत
३५
" Aho Shrutgyanam"
१३७