________________
श्रीरामभद्रविरचिता
सा च दुर्गतिहेतुः स्याद्, विसृज्यन्ताममी अतः । राजाऽऽह सत्यमेवैतद्, विमृश्यन्ते कथं पुन: ? ॥१६॥ सौवस्तिकोऽवदद् देव !, कार्यतां परितः पुरे । अनेषणां ततथैते, यास्यन्ति स्वयमेव हि ॥९७॥ भूपस्यानुमतेस्तेन, पौराणां कथितं यथा । इत्थमित्थं दीयमानं, मुनीना(नां) सत्फलप्रदम् ॥९॥ पत्तवा पक्त्वा तदर्थ ते, मुनीनां ददते जनाः । तत् ताहक प्रेक्ष्य मुरीणां, मुनयः प्रत्यपादयन् ॥९९।। उपयोगेन विज्ञाय, नृपाभिप्रायमीदृशम् । अथापर्युषिते चैव, निर्ययुः सूयः पुरान् ॥१०॥ दक्षिणां दिनमाश्रित्य, प्रतिष्ठानपुरं प्रति । प्रचेलुओपितं तत्र, न यावद् वयमागताः ॥१०॥ न हि पर्युषणा कार्या, तावत् संवेन धीमता । परमश्रावकस्तत्र, शात वाहन] भूपतिः ॥१०२॥ तदागमनवृत्तान्ताद्, वहीं मेघाऽऽगमादिव । शातवाहनभूपोऽभूत, प्रमोदामोदमेदुरः ॥१.३॥
अथ श्रीकालिकाचार्याः, प्रतिष्ठा]नपुरं ययुः संघेन सह राजाऽपि, ततः सम्मुखमभ्यगात् ॥१०४॥ रोदस्यां पूर्यमाणायामातोषध्वनिना नृपः ।। सूरीन् प्रवेश याश्च] क्रे, पुरे ध्वजलाकुले ॥१०५।। ववन्दिरे च चैत्येषु, प्रतिमास्तत्र सूरिभिः । अष्टाहिकास्ततः श्राद्धैस्तेषु पारेभिरे क्रमा[] ॥१०६॥ भल्या संसेव्यमानानां, संधेन श्माभृताऽपि च । तत्रस्थानां मुनीन्द्राणामगात् पर्युषणक्षणः १०७॥ तत्र देशे नभस्यस्य, शुद्धायां पञ्चमीतिथौ । यात्रा भवति शक्रस्य, राज्ञोक्ताः सूरयस्ततः ॥१०८॥ अत्र पर्युषणे लोका नुवृत्त्या वृत्तहा मम । भविष्यत्यनुगन्तव्यो, महता विस्तरेण तत् ॥१०९॥ चैत्यपूजाधनुष्ठान, कतुं न प्रभवाम्यहम् । कृत्वा प्रसा[दं च षष्ट्यां , कुरु पर्युषणं प्रभो ! ॥११०॥ अथाऽऽहुः कालकाचार्या अपि मेरुश्चलत्यहो ! । न विदं पर्व पञ्चम्या अतिकामति यामिनीम् ] ॥१११॥
"Aho Shrutgyanam"