________________
कालिकाचार्यकथा।
१२७
विदेहेऽन्येधुरासाद्य, स्वःस्वामी सामन्धरं जिनम् । नन्तुं गतो निगोदानां, व्याख्यानमश्रणोद् वृषा ॥७६।। अपृच्छच्च प्रभो! वर्षे, भारते सांपतं हि कः ? । एवं विचारकृन्नाथ ! कालकाचार्यमूचिवान् ॥७७॥ वृद्धब्राह्मणरूपेण, शक्रेणागत्य मरिराट् । पृष्टो निगोदव्याख्यानं, जिनेन्द्रवदचीकथत् १७८॥ पुनः शक्रो जगावायुः, कियद् वद मम प्रभो । । सरिरुचे श्रुतज्ञानाब्धेरिन्द्रस्वमभुप्रभुः ॥७९॥ तनिशम्यात्मनो रूपं, प्रकटीकृत्य भासुरम् । कृताञ्जलियतिप्रष्ठं, दृष्टस्तुष्टाव वासवः ॥८॥ जय प्रवचनाधार !, जय ज्ञानवदग्रणीः । जय सीमन्धरजिनस्तुत ! श्रीमन् ! नमोऽस्तु ते ॥८१॥ इति स्तुत्वाऽन्यतो द्वारं, शय्याया विरचय्य सः । देवानामधिपः स्वीयं, देवलोकमशिश्रियत् ।।८२॥ श्रीसूरयोऽपि प्रतिबोधितावनी
जनाः प्रक्लुप्ताऽनशनाः समाधिना । आयुः प्रपाल्य त्रिदशाधिपादिकामरमबोधार्थमिवाश्रयद् दिवम् ॥८३॥
इति श्रीकालिकाचार्यकथा समाप्ता ॥ पचनस्थहेमचन्द्राचार्यज्ञानमन्दिरभाण्डागारस्य डा. नं. १३१ प्र. नं. ३९९८ आदर्श श्लोकोऽयमधिको दृश्यते
पावजिनमतं यावत् , सुमेरुधरणीधरः ।
तावत् कालकसूरीन्द्रकथेयं भुवि नन्दतात् ॥८४॥ अस्याः प्रतैरेवान्ते पुष्पिकासहितं लिखितमिदम्
इति श्रीकालिकाचार्यकथा समाप्ता ॥ इयं कथा श्रीकालिकाचार्यस्य देवेन्द्रसूरिणा विरचिता । नक्षत्राक्षतपूरित० ॥१॥
संवत् १५२५ वर्षे शाके १३९० ज्येष्ठमासे कृष्णपक्षे षष्ठीदिने शुक्रवासरे श्रवणनक्षत्रे ऐन्द्रनामयोगे माजल्यपुरवरे सुरत्राणमहमूदराज्यप्रवर्त्तमाने श्री................ [ अतः परं हरितालप्रयोगेण प्रभ्रष्टान्यक्षराणि ]
"Aho Shrutgyanam"