________________
[१४] श्रीरामभद्रविरचिता कालिकाचार्यकथा ।
[ रचनासंवत् १३ शताब्दि ] जगद्वन्धो महानन्दकन्दफन्दलनाम्बुदः । दधादमन्दमानन्दं, देवः श्रीज्ञातनन्दनः ॥१॥ श्रीजयप्रभरिभ्योऽनूचानेभ्यो यथाश्रुतम् । यथाऽऽगमेभ्यश्च तथा, वक्ष्ये पर्युषणास्थितिम् ॥२॥ रमाभिरिव रामाभिः, मुरैरिव नरैर्युतम् । अस्त्पत्र भारते वर्षे, धरावासाभिधं पुरम् ॥३॥ विक्रान्तवैरिदुर्वारसमराध्वरदीक्षितः ।। वैरिसिंह इति ख्यातस्तत्राऽऽसीत् पृथिवीपतिः ॥४॥ तस्यातिवर्यसौदर्यनिर्जिताऽमरसुन्दरी । अभूत् पट्टमहादेवी, विश्रुता सुरसुन्दरी ॥५॥ दानशौण्डः साहसिकः, सांयुगीनः प्रसन्नधीः । तदुद्वहोऽभूदू विख्यातः, कुमारः कालकाभिधः ॥६॥ सोऽन्यदा वाहकेलीतः, प्रत्यात्तो वनस्थितम् । गुणाकराभिधं सुरिमपश्यत् अणनाम च ॥७॥ धर्म तेभ्यः समाकर्ण्य, जातचारिप्रधीस्ततः । गत्वा गेहं स्वबन्धुश्च, मोचयित्वा महाग्रहात् ॥८॥ सूरेस्तस्यैव पादान्ते, क्षत्राणां पञ्चभिः शतैः । स्वस्वस्रा च सरस्वत्या, युक्तः सोऽथाऽग्रहीद् व्रतम् ॥९॥ गीतार्थोऽधीतसिद्धान्तः, शमी संपन्नसद्गुणः । स स्वगच्छाधिपश्चक्रे, श्रीगुणाकरमूरिभिः ॥१०॥ अथाऽसौ कालिकाचार्यः, कुञ्जरः कळभैरिव । अनगारैः परीतः स्वैचिजहार वसुन्धराम् ॥११॥ शासनस्योन्नतिं कुर्वन् , उीं च प्रतिबोधयन् । उज्जयिन्यामगाद् वा(वा)ग्रोधाने च समवासरत् ॥१२॥ आगत्याऽऽगत्य पौराथ, मुरीणामन्तिकेऽन्वहम् । पृण्वन्ति देशनां सम्यग् , भववैराग्यदर्शिनीम् ॥१३॥
"Aho Shrutgyanam"