________________
श्रीदेवेन्द्रसूरिविरचिता अतः पर्युषणापर्व, नातिकामति पञ्चमीम् । वेलाभुवमिवाम्भोधिजलकल्लोलमालिका ॥६॥ चतुर्थ्यामस्त्विति मोक्ते, भूभुजा सूरयोऽभ्यधुः । अस्तु मोक्तं हि सिद्धान्ते, परिवस्तव्यमारतः ॥६॥ तदायभूद पर्युषणा, चतुर्थी पञ्चमीतिपः । महद्भिः स्वीकृतं कृत्यं, सर्वोऽपि धनुमोदते ॥६२॥
शिष्येष्वथाविनीतेषु, गुरुः शय्यातराग्रतः । शिक्षामुक्त्वाऽगमच्छिष्यशिष्यसागरसन्निधौ ॥६॥ स तु विद्यामदानोपलक्षितः सागरेन्दुना । ऊचे च विषमं कश्चित् , सूत्रार्थ पृच्छ मां जरन् ! ॥६॥ वृद्धोऽभ्यधान्नमस्कार, मुक्त्वा नान्यद् वेदम्यहम् । तथापि पृच्छेत्याचार्योदितः स्थविर ऊचिवान् ॥६५॥ वृद्धावस्थोचितं धर्म, व्याचक्ष्वाथ स सागरः । अनित्यताभावनादिधर्ममत्युजितं जगौ ॥६६॥ दृद्धोऽप्याहाध्यक्षमुख्यप्रमाणागोचरत्वतः । नैव संभाव्यते धर्मः, शङ्ककर्णविषाणयत् ॥६७॥ तन्मुधा क्रियते क्लेशो, मूईस्तद्विषये ततः । अतः क्षुब्धोऽपि धृष्टत्वमाहत्येत्याह सागरः ॥६८॥ हे वृद्धवर्य ! तत्कार्यसौख्यादेरुपलन्धितः । समस्त्येव तरां धर्मः, श्रीतीर्थङ्करभाषितः ॥१९॥ युक्तयैवं स्थापिते धर्मे, सागरेण ततो गुरुः । स्थितवान् मौनमाधाय, माऽसौ जानातु मामिति ॥७०॥ अहो ! साक्षादसौ वृद्धो, मत्पितामहसनिमः । इत्युक्त्वा सागराचार्यों. निजमासनमासदत ॥७२॥ अयान्तेषासिनो दुष्टाः, प्रातः शय्यातरं गुरुम् । पृच्छन्ति स्म ततः कृच्छाज्जातोदन्तास्तमन्वगुः ॥७२॥ सागरेणापि ते दृष्टाः, पृष्टा यावद् विवक्षवः । अभूवंस्तावदाजग्मुः, श्रीसूरान्द्रा बहिर्भुवः ॥७३॥ ततः ससागरैः साधुवृन्दैर्मन्दा(न्दे)क्षिताननेः । पन्दिताः क्षामिताः पूज्या अपुनःकरणेन च ॥७४॥ उत्थाप्य वालुकामस्थदृष्टान्तेन यतीश्वरैः । बोधितः सागरो विद्यामदमौज्झत् ततः परम् ॥७५॥
"Aho Shrutgyanam"