________________
१२५
कालिकाचार्यकथा। फलं तु अभ्रदुःखादि, भविता स्वीकरोपि चेव । व्रतं तत्पापतो मुक्तिर्भवभ्रमणमन्यथा ॥४५॥ कुळकम् ॥ इत्युक्तो मुनीन्द्रेण, न प्रबुद्धो नृपाधमः । शकेभ्यो मोचितश्चार्य, देशान्तरमशिश्रियत् ॥४६॥ आलोचितपतिक्रान्ता गुरवो गच्छमाश्रयन् । तथा सरस्वत साचों, व्रतमग्राहयत् पुनः ॥४७॥ मुख्यशाखिरभूदु राजा, सामन्ता अपरे पुनः । शककादमी ऐयुरिति ख्यातिमगुः शकाः ॥४८॥
अथ सूर्यवदानं तच्छत्वा मुदितमानसः । भृगुकच्छपुराधीशो, ज्येष्ठजामितनूद्भवः ॥४९॥ बलमित्रनृपो भ्रातृभानुमित्रयुतो गुरुन् । मन्त्रिणाऽय विदधे, तत्मवेशमहामहम् ॥५०॥ युग्मम् ॥ गुरूणां कुर्वतां व्याख्या, तत्रान्येधुर्नृपस्वसुः । भानुश्रियोऽङ्गभूर्दीक्षा, बलभानुरुपाददे ॥५१॥ जैनभक्तं नृपं ज्ञात्वा, पुरोधाऽवि(वी)वदन्मुधा । सूरिणा विजितः कण्ठीरवेणेव मतङ्गजः ॥५२॥ वन्धपादपदाक्रान्तिदोषायेति पुरोधसा । उक्तोऽन्यदा नृपः स्माह, विसृज्यन्ते कथं समी? ॥५३॥ यास्यन्त्येतेऽनेषणयेत्युक्तो विप्रेण भूपतिः । ऋजुत्वात् तां व्यथाद् यस्माद्, दुर्जनः को न वक्ष्यते ॥५४॥ घनागमेऽपि सुघनागमो ज्ञात्वेति मूरिराट् महाराष्ट्र प्रतिष्ठानामिधं पुरवरं ययौ ॥५५॥
तत्र सूरीश्वरं सातवाइनोऽवनिवल्लभः । संघेन सहितः मावेश्यदुत्सवपूर्वकम् ॥५६॥ न्याख्यानानन्तरं सूरि, ससंघः सातवाहनः । विझो विज्ञपयामास, श्रीमत्पर्युषणाकृते ॥५७!! जनानुवृत्या मयका, कार्यः स्यात् पञ्चमीदिने । इन्द्रोत्सवस्तत् प्रसध, षष्ठयां पर्युषणां कुरु ॥५८॥ सूरिः प्रोवाच पञ्चाशत्कादेजिनवरादयः । पुरा पर्युषितास्तबद्, गुरचो नस्तया वयम् ॥१९॥
३२
"Aho Shrutgyanam"