________________
१५४
श्रीदेवेन्द्रसूरिविरचिता
सूरिराह सुहृद्यर्थ, मा माणत्यागमातनु । diles मेलयित्वा, चल मालवकं प्रति ||२८|| तथाकृते सूरिणा च तैश्व तन्त्रयुतैः सह । शाखिः सिन्धुनदीं तीर्त्वा, सुराष्ट्राराष्ट्रमासदत् ॥ २९ ॥ सदt तत्र जलोत्फाले, वर्षाकाले समागते । सैन्यवासान् वितीर्यासों, मुख्यशाखिरवास्थितः ॥ ३० ॥ तलक्ष्मीमसहमान इवायाते फलाकुले । areniasaca सूरिभ ! भोवलत वेगतः ॥३१ ॥ द्रव्याभावात् कथमग्रे, गम्यते तैरितीरिते । चूर्णयुक्तयेष्टिकापार्क, रैमयं चक्रवान् गुरुः ||३२| ततो हृष्टाः शमष्ठाः, षण्णवत्या विभागकैः । स्वर्णमादाय चलिता गताश्रोज्जयिनीं पुरीम् ||३३|| ससैन्यो गर्छभिल्लोऽपि नगर्या निर्ययौ ततः । शास्त्रि-भूववयोर्युद्धं जातं राम- दशास्यवत् ||३४| राज्ञा शाखिभिया भेजे, फेरुणेत्र पुरन्दरी । ततस्ते शाखयोऽयुध्यन्, गढस्थैः सुभटैः सह ||३५|| रणो नाद्येति तैरुक्तः, सूरिः श्यामाष्टमीं जगौ । तत् पश्यत कापि खरीं साधयन्तं नृपाधमम् ||३६|| पश्यन्तस्ते तथारूपं, भूपं पेक्ष्यावदद् गुरोः ! सोऽप्याह रासभी शब्द, विधात्र्याराधिता सती ॥३७॥ शब्दश्रवाद विचैतन्वं, सैन्यं सर्वे भविष्यति । तद् द्विगव्यूतिपरतो, नयत द्विपदादिकम् ||३८|| मत्पार्श्वेऽष्टाधिकशतं योधानां शब्दवेधिनाम् । सज्जीकुरुत तैरप्येवं कृतं मूरिभाषितम् ||३९|| यावद् रावते खर्या, दूरमुत्पाटितं मुखम् । विशिखैः पूरितं तावच्छाखिभिः सूरिशिक्षया ॥ ४० ॥ गतशक्तिस्ततो रुष्टा, रासभी भूपमूर्द्धनि । कृत्वा मूत्रं पुरीषं च, हादिनीव तिरोदधे ॥४१॥ इयदेवास्य सामर्थ्यमित्युक्ताः सूरिणा शकाः । मङ्क्त्वा पुरीं गर्दभिलं, बद्ध्वा निन्युः गुरोः पुरः ||४२ || सूरयोऽप्यलपन् पाप !, भवता हठतस्तदा ।
यः समारोपितः साध्वीशील भङ्गमहीरुहः || ४३ ॥ संघवागन्यथाकारिमीरपूरेण चोक्षितः । तस्यैष तेऽधुना राज्यापभ्रंशः कुसुमोनमः || ४४॥
"Aho Shrutgyanam"