________________
२१२
क्रिया-कोश
पउजवा जे उ । तदसंखगुणविहीणं समये समये निरुभंतो ||१|| सव्ववदजोगरोहं संखाईएहिं कुrs समएहि" 'ततोऽणंतरं च ण' मित्यादि, ततो वाग्योगादनन्तरं च णं प्राग्वत् सूक्ष्मस्य पनकजीवस्य अपर्याप्तकस्य प्रथमसमयोत्पन्नस्येति भावार्थः जधन्ययोगिनः – स्वर्वाल्पवीर्यस्य पनकजीवस्य यः काययोगस्तस्याधस्ताद संख्येयगुणहीनं काययोगं समये समये निरु धन् असंख्येयैः समयैः समस्तमपीति गम्यते तृतीयं काययोगं निरुणद्धि, तं च काययोगं निरुन्धानः सूक्ष्म क्रियमप्रतिपाति ध्यानमधिरोहति, तत्सामर्थ्याच्च वदनोदरादिविवरपूरणेन सष्कुचितदेह त्रिभागवर्त्तिप्रदेशो भवति, तथा चाह भाष्यकृत् — “तत्तो य सुहुमपणगस्स पढमसमयोषवण्णस्स || जो किर जहण्णजोगी तदसंखेज्जगुणहीण मेक्वेक्के । समएहिं रुंभमाणो देहतिभागं च मुचतो ॥१॥
भइ स कायजोगं संखाईएहिं चेव समएहिं, काययोगनिरोधकालान्तरे चरमे अन्तर्मुहूर्ते वेदनीयादित्रयस्य प्रत्येकं स्थितिः सर्वापवर्त्त नया अपवर्त्यायोग्यवस्थासमाना क्रियते गुणाश्रेणिक्रमविरचितप्रदेशा xxx
अयोगतां च प्राप्य - अयोगताप्राप्त्यभिमुखो भूत्वा 'ईसिं' ति स्तोकं कालं शैलेश प्रतिपद्यते इति संबंधः कियता कालेन विशिष्टां इत्यत आह-हस्वपंचाक्षरोच्चाराया, किमुक्तं भवति ? - नातिद्र तं नातिविलम्बितं किन्तु मध्यमेन प्रकारेण यावता कालेन पणनम- इत्येवं रूपाणि पंचाक्षराणि उच्चार्य्यन्ते तावता कालेन विशिष्टामिति, एतावान् कालः किं समयप्रमाण इति निरूपणार्थमाह-- असंख्येयसामयिक - असंख्येयसमयप्रमाणां यच्चासंख्येयसमयप्रमाणं तच जघन्यतोऽप्यन्तर्मुहूर्तप्रमाणं तत एषाऽप्यन्तर्मुहूर्त्त प्रमाणेति ख्यापनायाह - 'आन्तर्मुहूर्तिकी शैलेशी' मिति, शीलं चारित्रं तच ह निश्चयतः सर्वसंवररूपं तद् ग्राह्यं तस्यैव सर्वोत्तमत्वात्, तस्येशः शीलेशः तस्य यावस्था सा शैलेशी तां प्रतिपद्यते, तदानीं च ध्यानं ध्यायति व्यवच्छिन्नक्रियमप्रतिपाति, उक्तं च-सीलं व समाहाणं निच्छयओ सव्वसंवरो सो य । तस्सेसो सीलेसो सेलेसी होइ तदवत्था ||१|| हरसक्खराई मज्झेणं जेण कालेण पंच भण्णंति । अच्छर सेलेसिगतो तत्तियमित्त तओ कालं ||२||तणुरोहारंभाओ कायर सुहुमकिरियानियहिं सो | वोच्छिन्नकिरिमप्पडिवाई सेलेसिकालंमि ||३|| न केवलं शैलेशी प्रतिपद्यते पूर्वरचितगुणश्रेणीकं च वेदनीयादिकं कर्म अनुभवितुमिति शेषः । xxx । आह-'तीसे सेलेसिअद्धाएं' इत्यादि, तस्यां शैलेश्यद्धायां वर्त्तमानोऽसंख्येयाभिर्गुणश्रेणीभिः पूर्वनिर्वर्त्तिताभिः प्रापिता ये कर्मत्रयस्य पृथक् प्रतिसमयमसंख्येयाः कर्मस्कंधास्तान् 'क्षपयन' विपाकतः प्रदेशतो वा वेदनेन निर्जरयन् चरमे समये वेदनीयमायुर्नामगोत्रमित्येतान् चतुरः'कर्मा'शान' कर्मभेदान् युगपत् क्षपयति, युगपश्च क्षपयित्वा ततोऽनन्तर
" Aho Shrutgyanam"