SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ क्रिया-कोश भवति । (सेयं काले त्ति) आगामिनि तृतीयसमये तत्कर्मापेक्षया कर्मतापि च भवति । एवं तावद्वीतरागस्यर्याप्रत्ययिकं कमीधीयते संबध्यते । ___ (ख) अत्तत्ता संवुडस्स अणगारस्स ईरियासमियस्स जाव गुत्तबंभयारियस्स आउत्तं गच्छमाणस्स, चिट्ठमाणस्स, निसीयमाणस्स, तुयट्टमाणस्स, आउत्तं वत्थपडिग्गहकंबलपायपुंछणं गेहभाणस्स, णिक्खिवमाणस्स, जाव चक्खुपम्ह निवायमवि वेमाया सुहमा ईरियावहिया किरिया कजइ, सा पढमसमयबद्धपुठ्ठा, बिइयसमयवेड्या तइयसमयनिजरिया, सा बद्धा, पुट्ठा, उदीरिया, वेश्या, निजिण्णा, सेयकाले अकम्म वा वि भव। --भग० श ३ । उ ३ । प्र १५ । पृ० ४५७-५८ टीका--... 'अत्तत्ता संवुडस्स' आत्मनि आत्मना संवृतस्य प्रतिसंलीनस्य इत्यर्थः । एतदेव 'ईरियासमियस्स' इत्यादिना प्रपंचयति ! 'आउत्तं' ति आयुक्तम् - उपयोगपूर्वकमित्यर्थः। 'जाव चक्खुपम्हनिवायमवि' त्ति किं बहुना आयुक्तगमनादिना स्थूलक्रियाजालेनोक्तन ? यावच्चक्षुःपक्ष्मनिपातोऽपि -- प्राकृतत्वाल्लिङ्गव्यत्ययः-- उन्मेषनिमेषमात्रक्रियाऽप्यस्ति, आस्तां गमनादिका तावदिति शेषः । 'वेमाय' त्ति विविधमात्रा अन्तर्मुहूर्तादेदेशोनपूर्वकोटीपर्यन्तस्य क्रिया, कालस्य विचित्रत्वात् । वृद्धाः पुनरेवमाहुः-- "यावता चक्षयोनिमेषोन्मेषमात्राऽपि क्रिया क्रियते, तावताऽपि कालेन विमात्रया स्तोकयाऽपि मात्रया इति । क्वचित् 'विमात्रा' इत्यस्य स्थाने 'सपेहाए'त्ति दृश्यते। तत्र च स्वप्रेक्षया -स्वेच्छया चक्षःपक्ष्मनिपातः, न तु परकृतः । 'सुहुम' त्ति सूक्ष्मबंधादिकाला, 'ईरियावहिय' ति ईर्यापथो गमनमार्गः: तत्र भवा ऐापथिकीकेवलयोगप्रत्यया इति भावः। 'किरिय' त्ति कर्म सातवेदनीयमित्यर्थः। 'कज्जई' त्ति क्रियते भवति–इत्यथः। उपशान्तमोह-क्षीणमोह-सयोगिकेवलि-लक्षणगुणस्थानकत्रयवर्तिवीतरागोऽपि हि सक्रियत्वात् सातवेद्य कर्म बध्नाति-- इति भावः । 'से' त्ति ईर्यापथिकी क्रिया 'पढमसमयबद्धपु?' ति बद्धा कर्मतापादनात्, स्पृष्टा जीवप्रदेशैः सर्शनात्, ततः कर्मधारये, तत्पुरुषे च सति ---प्रथमसमयबद्धस्पृष्टा। तथा द्वितीये समये वेदिता अनुभूतत्वरूपा - द्वितीयसमयवेदिता। एवं तृतीयसमये निर्जीर्णा-अनुभूतस्वरूपत्वेन जीवप्रदेशेभ्यः पारिशाटिता- इति । एतदेव वाक्यान्तरेणाऽऽह सा बद्धा स्पृष्टा प्रथमे समये, द्वितीये तु उदीरिता-उदयमुपनीता । किमुक्त भवति ? बेदिता, नहि एकस्मिन् समये उदीरणा, उदयश्च संभवति–इत्येवं व्याख्यातम् । तृतीये तु निर्जीर्णा ततश्च 'सेयकाले' त्ति एष्यत्काले, 'अकम्मं वा वि' त्ति अकर्म अपि च भवति । इह च यद्यपि तृतीयेऽपि समये कर्म अकम भवति, तथापि तत्क्षण एव अतीतभावकर्मत्वेन द्रव्यकर्मत्वात् तृतीये निर्जीर्णकर्म - इति व्यपदिश्यते, चतुर्थादिसमयेषु तु अकर्म इति । "Aho Shrutgyanam"
SR No.009528
Book TitleKriya kosha
Original Sutra AuthorN/A
AuthorMohanlal Banthia
PublisherJain Darshan Prakashan
Publication Year1969
Total Pages428
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy