SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ क्रिया-कोश मणसमियरस वयसमियास कायसमियस्स मणगुत्तस्स वयगुत्तरस कायगुत्तस्स गुत्तिदियस्स गुत्तभयारिस्स आउत्तं गच्छमाणस्स आउत्तं चिट्ठमाणस्स आउत्तं निसीयमाणस्स आउत्तं तुयट्टमाणस आउत्तं भुंजमाणस्स आउत्तं भासमाणस्स आउत्तं वत्थं पडिग्गहं कंबलं पायपुछणं गिण्हमाणस्स वा निक्खिवमाणस्स वा जाव चक्खुपम्हनिवायमवि अस्थि विमाया सुहमा किरिया ईरियावहिया नाम कजइ। सा पढमसमए बद्धा पुट्ठा बिईयसमए वेझ्या तश्यसमए निजिण्णा सा । बद्धा, पुट्टा, उदीरिया, वेश्या, निज्जिण्णा सेयकाले अकम्मे या वि भव । एवं खलु तस्स तप्पत्तियं ( सावज्जं) ति आहिज्जइ, तेरसमे किरियट्ठाणे ईरियावहिए त्ति आहिज्जइ । -सूय ० श्रु २ । अ २ । सू १४ । पृ० १४६ टीका- आत्मनो भाव आत्मत्वं तदर्थमात्मत्वार्थ संवृतस्य मनोवाक्कायः । परमार्थत एवंभूतस्यैवात्मभावोऽपरस्य त्वसंवृतस्यात्मतत्त्वमेव नास्ति सद्भूतात्मकार्यकारणात् । तदेवमात्मा) संवृतस्यानगारस्येर्यापथिकादिभिः पंचभिः समितिभिमनोवाक्कायैः समितस्य तथा तिमृभिगुप्तस्य । पुनर्गुप्तिग्रहणमेताभिरेव गुप्तिभिर्गुप्तो भवतीत्यस्यार्थस्याविर्भावनायात्यादरख्यापनार्थ वेति । तथा गुप्तेन्द्रियस्य नवब्रह्मचर्यगुप्त्युपेतब्रह्मचारिणश्च । सतस्तथोपयुक्त गच्छतस्तिष्ठतो निषीदतो मुनेस्त्ववर्तनांकुर्वाणस्य तथोपयुक्तमेव वस्त्रं पतद्ग्रहं कंबलं वा पादपुंछनकं वा गृह्णतो निक्षिपतो वा यावञ्चक्षुःपक्ष्मनिपातमप्युपयुक्त कुर्वतः सतोऽत्यंतमुपयुक्तस्याप्यस्ति विद्यते विविधा मात्रा विमात्रा तदेवं विधा सूक्ष्माक्षिपक्षमसंचलनरूपादिकेर्यापथिकानामक्रिया केवलिनापि क्रियते । तथाहि । सयोगी जीवो न शक्नोति क्षणमप्येकं निश्चलः स्थातुमग्निना ताप्यमानोदकवत्कार्मणशरीरानुगतः सदा परिवर्तयन्नेवास्ते । xxx। तदेवं केवलिनोपि सूक्ष्मगात्रसंचारा भवन्तीह च कारणे कार्योपचारात्तया क्रियया यद्बध्यते कर्म तस्य कर्मणो या अवस्थास्ताः क्रियाः । ता एव दर्शयितुमाह । ___ या सावकाषिणः क्रिया तया यद्बध्यते कम तत्प्रथमसमयएव बद्धं स्पृष्टं चेति कृत्वा तक्रियैव बद्धस्पृष्टत्युक्ता तथा द्वितीयसमये वेदितेत्यनुभूततृतीयसमयेऽतिजीर्णा । एतदुक्त भवति । कर्मयोगनिमित्तं बध्यते तस्थितिश्च कषायायत्ता तदभावान न तस्य सांपरायिकस्येव स्थितिः किन्तु योगसद्भावाद्वध्यमानमेव स्पृष्टतां संश्लेषं याति । द्वितीयसमये त्वनुभूयते तच्च प्रकृतितः सातावेदनीयं स्थितितो द्विसमयस्थितिकमनुभावतः शुभानुभावं अनुत्तरोपपातिकदेवसुखातिशायि देशतो बहुप्रदेशमस्थिरबंधं बहुव्ययं च तदेवं सेर्यापथिका क्रिया प्रथमसमथे बद्धस्पृष्टा द्वितीयसमये उदिता वेदिताऽतिजीर्णा १२ "Aho Shrutgyanam"
SR No.009528
Book TitleKriya kosha
Original Sutra AuthorN/A
AuthorMohanlal Banthia
PublisherJain Darshan Prakashan
Publication Year1969
Total Pages428
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy