________________
क्रिया - कोश मूलगुणेसु य पगयं पञ्चक्खाणे इह अहिगारो । होज हु तपचश्या अपचक्खाण किरिया - सूय निगा १७६८० प्रत्याख्यानस्यायं पोढा
3 11
टीका-नामस्थापनाद्रव्यादित्साप्रतिषेधभावरूपः । निक्षेपः । तत्रापि नामस्थापने सुगमे । द्रव्यप्रत्याख्यानं द्रव्यस्य द्रव्येण द्रव्याद्द्द्रव्ये द्रव्यभूतस्य वा प्रत्याख्यानम् । तत्र सचित्ता चित्तभेदमिश्रस्य प्रत्याख्यानं द्रव्यनिमित्तं वा प्रत्याख्यानं यथा धम्मिल्लस्य । एवमपराण्यपि कारकाणि स्वधिया योजनीयानि । तत्र दातुमिच्छा दित्सा न दित्सा अदित्सा तया प्रत्याख्यानमदित्साप्रत्याख्यानम् । सत्यपि देये सति च संप्रदानकारके केवलं दातुर्दातुमिच्छा नास्तीत्यतोऽदित्साप्रत्याख्यानं तथा प्रतिषेधप्रत्याख्यानमिदम्। तद्यथा--विवक्षितद्रव्याभावाद्विशिष्टसंप्रदानकारकाभावाद्वा सत्यामपि दित्सायां यः प्रतिषेधस्तत्प्रत्याख्यानम् । भावप्रत्याख्यानं तु द्विधांतःकरणशुद्धस्य साधोः श्रावकस्य वा मूलगुणप्रत्याख्यानमुत्तरगुणप्रत्याख्यानं चेति । च शब्दाद्विविधमपि नोआगमतोभावप्रत्याख्यानं द्रष्टव्यं नान्यदिति । साम्प्रतं क्रियापदं निक्षेप्तव्यम् । तत्र क्रियास्थानाध्ययने निक्षिप्तमिति । न पुननिक्षिप्यते । इह पुनर्भावप्रत्याख्यानेनाधिकार इति दर्शयितुमाह ।
४४
मूलगुणाः प्राणातिपातविरमणास्तेषु प्रकृतमधिकारः प्राणातिपातादेः प्रत्याख्यानं कर्तव्यमिति यावत् । वह प्रत्याख्यानक्रियाध्ययने नार्थाधिकारो यदि मूलगुणप्रत्याख्यानं न क्रियते तत्रोपायं दर्शयितुमाह । प्रत्याख्यानाभावेऽनियतत्वाद्यत्किंचनकारितया तत्प्रत्ययिका तन्निमित्ताभावादुत्पद्यते प्रत्याख्यानक्रिया सावधानुष्ठानक्रिया तत्प्रत्ययिकश्च कर्मबन्धस्तन्निमित्तश्च संसार इत्यतः प्रत्याख्यानक्रिया मुमुक्षणा विधेयेति ।
नोट --अर्थ के लिए देखो पुस्तक के शेष में । *१६'६ अप्रत्याख्यान क्रिया का दार्शनिक विवेचन :
[ जैन दर्शन का सिद्धान्त है कि यदि कोई व्यक्ति जीवहिंसा - प्राणातिपात नहीं कर रहा हो लेकिन उसके हिंसा करने में कोई बाधा नहीं हो, हिंसा करने के प्रत्याख्यान नहीं हो, विरति नहीं हो तो उस व्यक्ति को हिंसा की क्रिया लगती है । प्रतिफलित, कोई क्षुद्र जीव जिसके मन-वचन की शक्ति नहीं है, जिसकी चेतना स्वप्न जितनी भी नहीं है उस जीव के हिंसा नहीं करते हुए भी हिंसा सम्बन्धी अप्रत्याख्यान क्रिया लगती है । यह क्रिया भेदभाव रहित क्षुद्रकायी कुन्थु-कीट या स्थूलकायी हाथी, सेठ या गरीब, राजा या रंक सबको समान भाव से लगती है ।
"Aho Shrutgyanam"