________________
५४
मन्त्रियशः पाठविरचितं
वणिजः -- इतो गोपुरेण प्रविशतु देवः ।
( राजा प्रविशति । )
वणिजः
इतो निवेश्यतां कुवेरस्वामिस्तम्बेरमधासु चक्षुः ।
राजा - (निरूप्य सविस्मयं ) अहो ! धन्यं तद्राष्ट्रं यत्र वणिक्पुत्रमात्रलक्ष्मीलीलायितलबश्चक्रवर्तिसंपदोऽप्यतिशेते । अपरं च
निजकर्णतालतरलाः शङ्के जानाति संपदः सकलाः । तेन गजमण्डलीयं सदैव दानं प्रवर्त्तयति ॥ २२ ॥ प्रतीहारः ---- श्रियां तरलतां देव एव निर्विवादं विदाञ्चकार । वणिजः - इतोऽपि कुबेरस्वामितुरङ्गावलीर्विलोकितेन कृतार्थीकरोतु देवः । राजा - ( निरीक्ष्य साश्चर्य) नगरेषु लब्धरेखं तन्नगरं यस्मिन्नीश्वराणामीशो विभवैकदेशः । अपि च-
परिवर्तनैरविरलैस्तरलाः पुच्छाञ्चलास्तुरङ्गाणाम् । यान्ति निदर्शनभूयं धनयौवनजीवितव्येषु ॥ २३ ॥ प्रतीहारः --- अहो ! परमकाष्ठामधिरूढो वैराग्यरसो देवस्य । राजा- - ( परिक्रामन् )
ये यावन्तो भावा भवाय मुक्त्यै त एव तावन्तः । लवणाय यानि तान्येव मौक्तिकायाभ्रसलिलानि ॥ २४ ॥ वणिजः- -देव ! वामतः कुबेरस्वामिनो निर्विशेषसंभावितया चकचक्र
वाला दानशाला ।
[ तृतीयो
राजा - श्लाघ्योऽसौ महात्मा यस्यैवमुन्नता वदान्यता । तथा चधर्मस्य मूलं पदवी महिम्नः
पदं विवेकस्य फलं विभूतेः । प्राणाः प्रसिद्धेः प्रतिभूश्च सिडे
दीनं गुणानामिदमेकमोकः ॥ २५ ॥
वणिजः - पुरः परिस्फुटस्फटिकघटिता गृहसोपानपङ्क्तिस्तदिमामारोहतु देव: 1
" Aho Shrutgyanam"