________________
ऽङ्कः ]
मोहराजपराजयम् ।
( राजा परिक्रामति । )
प्रतीहारः --- इदं सुखासनमलङ्करोतु देवः ।
( राजा सुखासनमारुह्य गमनं नाटयति । )
प्रतीहारः पुरः पताकापङ्किस्तवकितव्योमोदरं कुबेरमन्दिरं पश्यतु देवः । राजा - ( विलोक्य) अये ! कणत्किङ्किणीजालवाचालदिक्कऋवाला ध्वजावलिरसौ प्रकटयति कोटीश्वरतां कुबेरस्य ।
किश्च
अमी यथा मारुतघातघूर्णिता ध्वजाञ्चलाः सौधशिरस्सु चञ्चलाः । तथा पदार्थाः सकलाः स्फुटं विद
न्निदं न निर्वेदमुपैति कः किल ? ॥ २० ॥
प्रतीहारः क एवं देवादपरो जानाति ? |
५३
राजा - (किश्चित्परिक्रम्याङ्गुल्या निर्दिशन् ) हन्त ! क एष कुबेरमन्दिरद्वारगोपुरं दक्षिणेन भूयान् जनसमवायः ? ।
( प्रविश्य )
महत्तरवणिजः — देव ! महाजनोऽयम् ।
राजा - किमेवमिह महाजनस्तिष्ठतीति ज्ञातुमिच्छामि । वणिजः — देव ! असौ हि कुबेरस्वामिसद्मप्रवेशावसरं प्रतिपालयति । राजा - ( सविमर्श) क इवेदानीमत्र प्रवेशप्रत्यूहहेतुः स्यात् ? । वणिजः -- राजपुरुषपरिगृहीतसर्वस्वे निष्पुत्रप्रमीतधामनि प्रवेष्टव्यम् । अन्यथा हि राज्यग्राह्यता ।
राजा - (आत्मगतं )
कर्तु तत्क्षणमौर्ध्वदेहिकमहो ! पापं भयाद्भूभुजां निष्पुत्रस्य मृतस्य बान्धवजनः स्निग्धोऽपि नासीदति । क्रन्दन् किञ्च कर्थ्यते गृहजनोऽन्विष्यद्भिरन्तर्धनं free aafattव नृपव्यापारिभिर्निष्कृपैः ॥ २१ ॥
"Aho Shrutgyanam"