________________
मन्त्रियशः पालविरचितं
[ तृतीयो
वणिजः - देव ! कुबेरस्वामी निष्पुत्र इति तल्लक्ष्मीर्नरेन्द्रगृहानुपतिछते । तदादिश्यतामध्यक्षः कोऽपि येन तत्परिगृहीते गृहसर्वस्वे करोति महाजनस्ते दौर्ध्वदेहिकानि ।
राजा - (स्वगतं )
५२
आशाबन्धादहह ! सुचिरं संचितं क्लेशलक्षैः केयं नीतिर्नृपतिहतका यन्मृतस्वं हरन्ति ? | क्रन्दन्नारीजघनवसनाक्षेपपापोत्कटाना
माः किं तेषां हृदि यदि कृपा नास्ति तत्किं त्रपापि ? ॥ १९ ॥ मया त्ववश्यं मृतस्वं मोक्तव्यमेव । ( प्रकाशं ) भद्राः ! स्वयमागत्य तावद्रक्ष्यामस्तस्य गृहं गृहसारं च । तद्यात यूयं वयमप्यनुपदमेवायाता इति । वणिजः — परमनुगृहीताः स्मः । ( इति प्रणम्य निष्क्रान्ताः । ) विदूषकः -- (१) भो ! तं य्येव उवत्थिदं ति ।
राजा- - वयस्य ! साधयामस्तावन्मृतस्वमोक्षाय । त्वमप्यमुं प्रबन्धं पुण्यकेतोर्विदितं कुरु ।
विदूषकः - (२) एवं भोदु ।
राजा- - कस्कोऽत्र भोः !
( प्रविश्य )
प्रतीहारः- किमाज्ञापयति देवः ? ।
राजा -- प्रतीहार ! प्रगुणय सुखासनं कुबेर सदनगमनाय | प्रतीहारः- यदादिशति देवः । ( इति निष्क्रम्य प्रविश्य च । ) देव 1 सर्व सुविहितमेव ।
राजा - तदादेशय पन्थानम् । प्रतीहारः -- इत इतो देवः ।
( १ ) भोः ! तदेवोपस्थितमिति । (२) एवं भवतु ।
B & C तदूर्ध्व
"Aho Shrutgyanam"