________________
मोहराजपराजयम् । यदि न्यायो मात्स्यस्तव भुवि विषं नो किममृते ?
तमः किं नाऽऽलोके त्वयि तपति चेद्धर्मविलयः ? ॥ १६॥ राजा-तर्हि किमन्यन्मदुपसर्पणे प्रयोजनं स्यात् ? ।
वणिजः--( करकमलकुभलं मौलौ विधाय ) देव ! महाजनोऽस्मन्मुखाद्विज्ञपयति।
राजा-(सादरं ) किमिव ? ।
वणिजः-यथा, निजलक्ष्मीपराजितराजराजो गूर्जरनगरवणिरमूर्धन्यः कुबेरनामा श्रेष्ठी विदितो देवस्य । राजा-(ईषद्विहस्य)
निजविभवनिर्जितामरपुरीकमेते वयं सहानेन ।
यन्नगरमधिवसामः कथं न जानीम तं (स्तं) नाम ॥ १७॥ वणिजः--जानाति देवः स्वपरिग्रहे गौरवमारोपयितुम् । .. राजा-पुरस्तादभिधीयताम् ।
वणिजः स च जलधिवम॑नि कथाशेषतया स्वामिपादानामसेवकतामशिश्रियत्।
राजा-(सविषादं स्वगतं) कष्टं भोः ! कष्टम् । मन्ये च तद्गहादेवायमतीवकरुणो रोदनवनिरुदगमत् । (प्रकाशं ) अहो ! ईदृश एवायमसारः संसार, क्षणभङ्गरमायुः, अनित्यं यौवनम्, चपलं जीवितव्यम्, विनश्वरं शरीरम्, अस्खलितगतयो व्याधयः, दुर्निवारा जरा। अपि चलड्रेशः क स? केशवः क स ? नलः कासौ ? क ते पाण्डवाः?
कासौ दाशरथिः? क तत्कुरुशतं? ते च क चक्रायुधाः । नाभेयप्रमुखाः कते जिनवृषास्तत्सर्वसाधारणं
नन्येतन्मरणं न तत्र शरणं कश्चित्कचित्कस्यचित् ॥ १८ ॥ वणिजः-देव ! एवमेवैतत् । राजा-अथ क इदानीमस्मासु महाजनस्य नियोगः ।
१ B&C मुखेन.
"Aho Shrutgyanam"