________________
मन्त्रियशपालविरचितं
[तृवीयो(नेपथ्ये रुद्यते ।)
(उभौ सदुःखमाकर्णयतः।) राजा-कुतः पुनरिदममन्दमाक्रन्दविस्पन्दितमुदितमार्द्रयति पाषाणसोदाण्यपि हृदयानि?।
(प्रविश्य) प्रतीहारः-(प्रणम्य) देव! चत्वारो नगरमहत्तरवणिजो छारमध्यासते। राजा-शीघ्रं प्रवेशय । प्रतीहारः-यदाज्ञापयति देवः । ( इति निष्कामति ।)
(ततः प्रविशन्ति प्रतीहारेण सह वणिजः ।) प्रतीहारः-अयं देवस्तदुपसर्पत यूयम् । वणिजः-( अग्रतो विलोक्य सप्रमोदं )
निजकीर्तिवल्लिवलयव्याप्तब्रह्माण्डमण्डपाभोगः। देवः कुमारपालः स एष चौलुक्यकुलतिलकः॥ १४ ॥
(उपसृत्य प्रणमन्ति ।) राजा--(सप्रसादं) इत आस्थताम् ।
(वणिजो नाट्येनोपविशन्ति ।) राजा-भद्राः कच्चित्कश्चन गरीयान्कार्यविशेषः? यद्राजकुलमारूढाः स्थ। वणिजः-देव ! अथ किम् । राजादुर्नीतिर्ने किमिह महती काचिदुचैः प्रभुत्वाद् ?
मद्गृह्येभ्यः परिभवपदं किं कचिन्मत्प्रमादात् ? । मात्स्यो न्यायोऽनवहिततथा मन्त्रिणामुत्थितः किं ?
किं धर्मस्य वचन बलवान् विप्लवः कोऽप्यकस्मात् ? ॥१५॥ वणिजः-( कौँ पिधाय) शान्तं पापम् । आः किमेवमादिशति देवः ? । ननु,
कुनीतिस्त्वत्तश्चेन्न किमु शशिनोऽङ्गारपतन ?
भयं त्वदृधेभ्यो यदि न कथमदयो हुतवहः ।
"Aho Shrutgyanam"