________________
४९
मोहराजपराजयम् । राजा-किमाज्ञापयति देवी ? । व्यवस्था-(१) निव्वीराधनं मुंचसु त्ति । राजा-शिरसा प्रतिगृहीतं देव्याः शासनम् । विदूषकः-(२) भोदी पुणो पि किं पि जंपिदुकाम व्व लक्खीयसि । व्यवस्था--(३) अध किं ? । राजा-भूयोऽपि किमप्यादिष्टं देव्या ?। व्यवस्था-(४) नियरज्जादो वसणचक्कवालं निवाससु त्ति ।
राजा-परमनुगृहीतोऽस्मि । भद्रे ! विज्ञापय देवीम् । यथा संपादितमेवेदं यमपीति ।
व्यवस्था-(५) एसा विन्नवेमि । ( इति निष्कान्ता।)
विदूषकः-(६) भो ! इमम्मि संपादिदे हत्थगद य्येव ते किवासुदरि त्ति। राजा-( कृपासुन्दरीमनुसृत्य प्रत्यक्षवदाकाशे )
कान्ते! येन विलोकितासि सफलं तज्जन्म मन्ये सदा __ धन्यानां धुरि बुध्यते स सुभगे ! रागेण यं पश्यसि । यं लेहादनुयासि सुनु! भगवांस्तस्य प्रसन्नो विधिः
प्रेम्णालिङ्गसि यं कृशाङ्गि ! सुचिरं चक्रे स तीनं तपः ॥ १२॥ अपि च
ज्योत्लामयी स्वभावान्मयि दहनमयीव वर्तसे यदिह ।
तदनेकान्ते कान्ते ! जातासि निदर्शनं प्रथमम् ॥ १३ ॥ (१) निर्वीराधनं मुञ्चेति । (२) भवती पुनरपि किमपि कथयितुकामेव लक्ष्यसे । (३) अथ किम् ?। (४) निजराज्यायसनचक्रवालं निर्वासयेति । (५) एषा विज्ञपयामि । (६) भोः ! एनस्मिन् संपादिते हस्तगतैव ते कृपासुन्दरीति । १ B&C • मोदी' इति नास्ति. २ B & C पुणो किं. ३ B & C बध्यते.
"Aho Shrutgyanam"