________________
मोहराजपराजयम् ।
राजा - सुखासनादवतीर्य प्रतीहारदत्तबाहुरारोहति । वणिजः - देव ! तदेतन हैकदेशवर्त्ति सिद्धायतनसन्निभं निभालयतु कुबेरस्वामिकारितं चैत्यालयम् ।
राजा - ( सबहुमानं ) किमपि निरुपमं रामणीयकं गृहचैत्यस्य । तथाहिनिर्मलमणिमयकुट्टिमभूतलसंक्रान्तकान्तनिजरूपम् ।
स्वेनैव यदि परमिदं लभते स्वस्योपमानपदम् ॥ २६ ॥
तद्भद्राः ! तावदिदमेवोपास्महे श्रेयः प्रतिबन्धी हि भगवतां व्यतिक्रम इति । वणिजः- -इत इतो देवः ।
---
राजा - ( उपसृत्य ) विनीतवेषप्रवेश्यानि देवतायतनानि । ( इति च्छत्रमुकुटचामरादीनि परिहरति 1 )
प्रतीहारः- - (स्वगतं ) अहो ! विवेकवर्त्मनि क्षुण्णता क्षोणीश्वरस्य । राजा - (गृहचैत्यमध्यास्य )
ऽङ्कः ]
पर्यायस्तुहिनाचलस्य यमकं पीयूषकुण्डस्य च क्षीराब्धेरभिधान्तरं प्रतिकृतिः शीतांशुलोकस्य च । वीप्सा चन्दनकाननोदभुवोऽभ्यासश्च धारागृहस्यार्हचैत्यमिदं प्रपञ्चयति नः शैत्यं वपुश्चेतसोः ॥ २७ ॥
४
अपि च
देवोऽर्हन् धन्यानां धाम्नो मनस इव मध्यमधिवसति । निरुपम नैपुणपुण्यैकसूत्रधाराग्रणीघटितः ॥ २८ ॥ वणिजः - इह हि गर्भगृहान्तर्मरकतशिलानिर्मितमूर्तेः श्रीनेमिजिनपतेः पादारविन्दं वन्दतां देवः ।
राजा - ( सविनयं प्रणम्य स्तौति । )
उद्गीतामप्सरोभिस्त्रिदशसदसि यत्कीर्तिमाकर्ण्य भीत्या संभूताकम्पसंपद्विवशकरतलात्प्रच्युतं पञ्चबाणात् । पौष्पं चापं व्यलापीन्मधुकरविरुतिच्छद्मना हा ! मनोभूः
केयं तेऽभूद्दशेति प्रथयतु स शिवं श्रीशिवानन्दनो वः ॥ २९ ॥ वणिजः - प्राकरणिकी प्रसा देवेन देवतास्तुतिः ।
" Aho Shrutgyanam"