________________
ऽङ्कः ]
मोहराजपराजयम् ।
स्फुरति न विघ्नो यावत्तावढुक्पश्य सन्ततं तन्वीम् ।
क्षमते नाम न सुचिरं तनुपुण्यं तनुभृतां भोगम् ॥ ४० ॥ सोमता--( सखीं विलोक्य स्वगतं ) (१) कहं अन्ज वि न विरमदि तरुसिंचणादो पियसही? । ता किं कुणेमि एगा अहं ? । जइ को विपरिचिदो अपरिचिदो वा सन्निहिदो भोदि, ता तेण समं कहाविणोदेण खर्णमित्तं सुहं कुणेमि । इति।
- (ततः प्रविशति तरोरुड्डीय संवरनामा शुकः ।) सोमता--(निरीक्ष्य सप्रमोदं ) (२) सोहणं संपन्नं । ता एणं पुच्छिस्सं । अयि रायसुय ! सागयं तुम्ह ।
शुकः-स्वागतं सज्जनदर्शनेन । सोमता-(३) इत्थ धम्मारामे अहिरमसि न व ति।
शुकः-श्रीचौलुक्यचन्द्रस्य कुमारपालदेवचक्रवर्तिनः क्रीडाशुकोऽहं तस्य पृष्ठतो विचरामि ।
सोमता--(सावहित्यं ) (४) सो राथा कत्थ पएसे संपयं ?।। शुकः-जन्मान्तरप्रणयिनी कृपासुन्दरीमवलोकयितुमत्रैव वर्तते। सोमता-(५) तस्स गुणसंकित्तणेण सहलीकरेदु मह कन्ने भवं ।
शुकः-(स्वगतं ) इयं गुणग्राहिणी वर्णिनी ततो निवेदयामि स्वामिनो गुणान् । (प्रकाशं ) दक्षिणं पाणिमुद्यम्य, एषः
श्रीहेमचन्द्रक्रमपद्मसेवा.
पवित्रभालः स कुमारपालः। (१) कथमद्यापि न विरमति तरुसिञ्चनतः प्रियसखी? | ततः किं करोमि एकाहम? यदि कोऽपि परिचितोऽपरिचितो वा सन्निहितो भवति, ततस्तेन समं कथाविनोदेन क्षणमात्रं सुखं करोमि ।
(२) शोभनं संपन्नम् । तत एतं प्रक्ष्यामि । अयि राजशुक ! स्वागतं तव। . (३) अत्र धर्मारामेऽभिरमसे न वेति । (४) स राजा कुत्र प्रदशे सांप्रतम् ।। (५) तस्य गुणसंकीर्तनेन सफलीकरोतु मम कौँ भवान् । १ B&Cखणमेतं. २ B&C एयं.
"Aho Shrutgyanam"