________________
मन्त्रियशःपालविरचितं
[द्वितीयो. यत्कीर्तिजन्मेव सुधामरीचि
जगत्तमो हन्ति महोविलासैः ॥४१॥ सोमता-(१) विहङ्गमसत्तम ! अदोवरं किं करिस्सदि महाराया ? । शुकः
सर्वकषं कल्मषवर्मदुर्जयं
व्यामोहराजं विनिहत्य सङ्गरे । कृपाविलासैरभृतोर्मिसोदरै
रानन्दितः स्थास्यति काननेऽत्र सः ॥ ४२ ॥ सोमता-(२) रायवल्लह ! सा पुरिसविदेसिणी सुणीयदि। कहं नरनाहस्स पणयिणी भविस्सदि ? । अवि य, तीसे वदृदि दुप्पूरो महापणबन्धो।
शुकः-कीदृशः ?। सोमता-(३) सुणसु । तथा च
इह भरहनिवाओ जं न केणावि चत्तं
मुयइ मयधणं जो तं पि पाविकमूलं । नियजणवयसीमं मोयए जो य जूय
प्पमुहवसणचकं सो वरो मज्झ होउ ॥ ४३ ॥ शुकः-प्रथममेव कक्षीकृतोऽयमर्थः पार्थिवेन । सोमता-(४) एदं नाहं सहहामि । (१) विहङ्गमसत्तम! अतःपरं किं करिष्यति महाराजः ।
(२) राजवल्लभ ! सा पुरुषविद्वेषिणी श्रूयते । कथं नरनाथस्य प्रणयिनी भविष्यति । अपि च, तस्या वर्तते दुष्पूरो महान् पणबन्धः। (३) शृणु,
इह भरतनृपाद्यन्न केनापि त्यक्तं
मुञ्चति मृतधनं यस्तदपि पापैकमूलम् । निजजनपदसीमां मोचयेद्यश्च चूत.
प्रमुखव्यसनचक्रं स वरो मम भवतु ॥ (४) एतन्नाहं श्रद्दधामि । १ B&C'तथा च'
"Aho Shrutgyanam"