________________
मन्त्रियशपालविरचितं
[द्वितीयो
सखी--(१) देववल्लहे ! कहं पायवपल्लवेसु एरिसो धम्मोसमुल्लसदि ?। निजियकन्दप्पतेयस्स पुरिसरयणस्स अमयरसवरसिणा करकमलेण भोदव्वं ।
(कृपासुन्दरी श्रुत्वा सलज्जं सरभसं हस्तमाकृष्य पराङ्मुखी तिष्ठति।) राजा-(सविषादं)
कथमपि तव कर ! जातः पुण्यश्रीपाणिपल्लवः प्रणयी।
तत्किं भूयो भविता ? सिद्धानं नाङ्करं सूते ॥ ३७॥ (पुनः स्वकरं विलोक्य)
तत्करपीडनजातस्वेदाम्भाकणमिषेण हस्तो मे।
संप्रति तस्य वियोगे रोदिति नूनं विधे ! पश्य ॥ ३८ ॥ सोमता-(२) पियसहि ! गुरुसासणविराहणे महन्तो पञ्चवाओं। ता कुणह सेचणयं ।
(कृपासुन्दरी साशङ्क संमुखीभूय तरं प्रति ध्यानकलशेन सेचनकं विधत्ते ।)
विदषक:-(वीक्ष्य सानन्दं ) (३) पियवयस्स ! तुह पुन्नाणुभावेण अभादो अदिकता चन्दलेहा, विववियं तमपडलं । ( इति नृत्यति ।)
राजा--(निरूप्य सहर्षे) धिग्मूर्ख ! मा मैवं कुरु । यतः, त्वदुत्तालतुमुलेन त्रस्यति बालहरिणी ।
विदूषकः-(४) जइ एवं ता निजंतेमि एवं अणेण बंभसुत्तेण । (इति यज्ञोपवीतं कण्ठादुत्तारयति ।) राजा-अहो ! असमयज्ञोऽयं विप्रः । यतः
यदि भवति पाबन्धः प्रेमगुणेनैव नान्यथा युवतेः।
पुण्येन विना बत! नहि पारदबन्धो भवत्यपरैः॥ ३९॥ (पुनर्विमृश्य)
(१) देववल्लभे! कथं पादपपल्लवेष्वीदृशो धर्मः समुल्लसति । निर्जितकन्दर्पतेजसः पुरुषरत्नस्यामृतरसवर्षिणा करकमलेन भवितव्यम् ।
(२) प्रियसखि ! गुरुशासनविराधने महान् प्रत्यवायः । ततः कुरु सेचनकम् । (३) प्रियवयस्य ! तव पुण्यानुभावेनाभ्रतोऽतिक्रान्ता चन्द्रलेखा । विद्रावितं तमःपटलम् । (४) अद्येवं ततो नियन्त्रयाम्येतामनेन ब्रह्मसूत्रेण ।
१ सोमतेत्यर्थः।
"Aho Shrutgyanam"