________________
मोहराजपराजयम् ।
१५
I
राजा - साधु वयस्य ! साधु । साप्यत्र सावधानैर्विलोकनीया । ( इति सानन्दं परिक्रामति 1 )
विदूषकः- - ( १ ) वयस्स ! पिच्छ पिच्छ एस सो पायवो ।
राजा - ( विलोक्य) अहो ! सकलवृक्षजातिविलक्षणोऽयं पादपः । यतो दृष्टमात्रोऽपि मयि वर्षति सुधाधाराधोरणीः । (पुनः सम्यग्निरीक्ष्य 1 ) अहह ! छाया सौन्दर्यमस्य । तथा च
ऽङ्कः ]
अस्यच्छायाधिक्यात्संपन्नं खलु कलङ्कमपनेतुम् । आरब्धं दानमहो ! कर्त्तुं किल कल्पवृक्षेण ॥ २४ ॥ ( नेपथ्ये )
त्रिभुवनहितेऽखण्डितसुखसन्दोहदायिनि
पादपः । यतः—
सकलपादपेभ्यो विलक्षणोऽयं
जलधरजलं न वाञ्छति संकोचं भजति सिन्धुपाथोभिः । अमृतेनापि न विकसति रसेन रूढोऽपरेणायम् || २५ ||
राजा - ( श्रुत्वा संविस्मयं ) अहो ! चित्रं चित्रम् । सन्ति तादृशा अपि प्रदेशाः । यत्र जलादृतेऽपि प्ररोहन्ति तरवः । भवतु तावत्कोऽपि कस्मैचिदुपदिशति । तत्केनामुना भवितव्यम् ।
विदूषकः - ( २ ) कहं छहिं रसेहिं नवहिं नहरसेहिं वा परूढो एस तरू १ । ( पुनर्नेपथ्ये ) सोमते ! दक्षासि अस्य वृक्षस्य सेचनके ।
सोमता - ( सविनयं ) (३) भयवं जाणेदि । पुणो वि आणवेदु तत्तभवं । ( नेपथ्ये )
उन्मुद्रित सरस्वती भाण्डागारस्य ज्ञानसमुद्रस्य श्रीहेमचन्द्रस्य गुरोरादेशसुधासारं मन्मुखप्रणालद्वारेण धारय मनःकुण्डे । यदस्य तरोर्निजसखीसकाशात्सेचनकं कारयेः ।
( १ ) वयस्य ! पश्य पश्प एष स पादपः ।
( २ ) कथं षड्डिः रसैर्नवभिर्नाट्यरसैर्वा प्ररूढ एष तरुः ? ।
( ३ ) भगवान् जानाति । पुनरपि आज्ञापयतु तत्रभवान् ।
१ B & C वृक्षः २ B & C सस्मयं.
"Aho Shrutgyanam"