________________
२४
मन्त्रियशःपालविरचितं
[द्वितीयोएसो धम्मारामो अत्यत्थि महहुमो दमो नाम ।
मुत्तावलीहिं फलिओ विडम्बए तियसतरुलच्छि ॥१८॥ राजा-(विलोक्य स्वगतं 1) अत्र हि
सौभाग्यभाग्यपाच्या दूरस्थे दृष्टिविभ्रमे तस्याः।
संवृद्धो मम हृदये यास्यति शान्ति स सन्तापः ॥ १९॥ (धर्मारामपरिसरमुपसृत्य निरूप्य च।) इह हि
विरतिसरसीसमुत्थं विमलं संतोषशतदलं वीक्ष्य।
तस्याः स्मरामि सततं विभ्रमविस्फारितं चक्षुः ॥२०॥ (पुनर्विलोक्य ) वयस्य ! कासौ शाखी?। विदूषकः-(१) एस पुरो जेव । राजा-(विलोक्य सहर्ष )
घटितमिवात्मानमिमं मन्येऽहं पुण्यसारसन्दोहैः ।
यत्तत्परिमलवाही मामनुगृह्णाति पवनोऽयम् ॥ २१ ॥ (पुनरावाय)
परिमलमेनं मन्ये तस्या निस्सीमपुण्यमालायाः।
अयमन्यथा कथं मे प्राणानां जायतां प्राणः ॥ २२ ॥ विदूषकः-(२) एवमेदं । राजा-(दक्षिणाक्षिस्पन्दनमभिनीय) . कुरु हृदय ! मुदं यस्मात्फलितः पुण्यमस्तवेदानीम् ।
इति कथयति मम दक्षिणचक्षुःस्फुरणं शुभोदकम् ॥ २३ ॥ विदूषकः-(३) अणेण सुहनिमित्तेण तुह मणोवल्लहा किवासुन्दरी वि इत्थ पएसे संभाविजइ।
एष धर्मारामो यत्रास्ति महाद्रुमो दमो नाम ।
मुक्तावलीभिः फलितो विडम्बयेत् त्रिदशतरुलक्ष्मीम् ।। (१) एष पुर एव । (२) एवमेतत् । (३) अनेन शुभनिमित्तेन तव मनोवल्लभा कृपासुन्दर्यप्यत्र प्रदेशे संभाव्यते।
१B&Cएवं ने.
"Aho Shrutgyanam"