________________
ऽङ्कः]
मोहराजपराजयम् । भोदु दाव बोधयिस्सं । (प्रकाशं ) भो वयस्स ! कीस तीसे स्वविव. जिदाए इत्थिगाए कदे माइण्हियाइ व्व मिगो बाढं तम्मसि ? । कहं वा तप्पिम्मगहिल्लिओ स्वनिजिददीणं देवीणं परम्मुहो होसि ? । ता सव्वधा न जुत्तमिमं । राजा-वयस्य ! मा मैवम् । यतः
मन्ये प्राच्यभवान्तरेऽपि भगवत्सर्वज्ञपादश्रिया
संश्लिष्टं मम भालमण्डलमिदं दृष्टिश्च तदर्शनैः । तस्मादस्मि सुधांशुरश्मिशिशिरां स्त्रीरत्नचूडामणे
सेलोन्मूलितकाममार्गणगतिं तस्याः श्रितोऽहं दृशम् ॥ १५ ॥ अपि च
दिशि दिशि विरचितबहुविधरूपा यहीक्ष्यते मया व्यक्तम् । तदिव्या काचिदसौ मानुष्या नेहशी शक्तिः ॥१६॥
(पुनः स्वहृदयं प्रति ।) धारय हृदय ! सयत्न रत्नं रमणीषु जीवितं यन्मे।
येन विना मयि वर्षति तुषाररुचिरपि कणान् वः ॥ १७॥ विदूषकः-(स्वगतं सविषादं ) (१) अदिदूरमारोविदो एस दासीए पुत्तगेण पिम्मग्गहेण । ता किमिदाणिं कायव्वं ।
राजा-वयस्य ! प्रियाविरहव्यथाक्रान्तस्वान्ततया न कापि प्रामोमि रतिम् । तदादेशय धर्मारामस्य पन्थानम् । येन तत्र गत्वात्मानं विनोदयामि ।
विदूषकः-(२) इदो इदो एदु वयस्सो । ( उभावपि परिक्रामतः ।) विदूषकः-(३) भो वयस्स ! पिच्छ पिच्छ,
भवतु तावद् बोधयिष्ये । भो वयस्य ! कस्मात्तस्या रूपविवर्जितायाः स्त्रियाः कृते मृगतृष्णिकाया इव मृगो बाढं ताभ्यसि ?। कथं वा तत्प्रेमाथिलको रूपनिर्जितरतिभ्यो देवीभ्यः पराङ्मुखो भवसि ? । ततः सर्वथा न युक्तमिदम् ।
(१) अतिदूरमारोपित एष दास्याः पुत्रकेन प्रेमग्रहेण । ततः किमिदानी कर्त्तव्यम् । (२) इत इत एतु वयस्यः । (३) भो क्यस्य ! पश्य पश्य,
१ B & C"गलिओ. २ A तति. ३3& C तन्म. ४ B & C कादब्ध.
"Aho Shrutgyanam"