________________
२२
राजा
किञ्च
- ( दीर्घमुष्णं च निःश्वस्य )
मन्त्रियशः पालविरचितं
( ततः प्रविशति राजा विदूषकश्च 1 )
सर्वज्ञचरणयुगले सरसिजलक्ष्मीं विलोक्य मे चित्तम् । चिन्तयति नेत्रनलिनद्वयमनघं तत्क्षणं तस्याः ॥ १० ॥ ( पुनराकाशे लक्षं बद्धा )
अपि च
अन्यच
श्रुतां प्रणिधिवक्रेण दृष्टां गुरुतपोवने ।
तामेकां सुन्दरीं मुक्त्वा नान्यत्र रमते मनः ॥ ९ ॥
धातस्त्वया या मृगशावलोचना हृता नितान्तं खलचित्तवृत्तिना । संस्पर्द्धया ते मम चिन्तया हृदि न्यासीकृता सैव सुधातरङ्गिणी ॥ ११ ॥
सर्वकष ! पञ्चेषो ! संप्रति मां प्रति करिष्यसे किं रे ? | स्त्रीरत्नं तन्मम हृदि यस्य खलु त्वमपि दासोऽसि ॥ १२ ॥
[ द्वितीयो
आच्छिन्नं यस्य धनुर्भूवल्लीछद्मना यया तन्व्या । साई मम मनसि तया स वसन्नो लज्जसे काम 1 ॥ १३ ॥ विदूषकः - (स्वगतं ) ( १ ) हद्धी हद्धी पुरा वि दाव एस उम्मत्तओ आसि । इदाणिं पुण विसेसो जाओ । जं तस्सेव सेयंबरगुरुणो तवोवणे निज्झाइदा अणेण किवासुंदरी णाम कन्नगा । तदणुरायविसंठुलो य असमंजसं वियरदि । जंवा तंवा पलवदि । ता सच्चमेयं,
जत्थ व तत्थ व नूणं कामियणो नियइ तम्मयं सयलं । उम्मत्तयर सरसिओ पिच्छइ नन्नं विणा कणयं ॥ १४ ॥
१ B & C पुरा दा. "
( १ ) हा धिक् हा धिक् पुरापि तावदेष उन्मत्तक आसीत् । इदानीं पुनर्विशेषो जातः । यत्तस्यैव श्वेताम्बर गुरोस्तपोवने निर्ध्याता अनेन कृपासुन्दरी नाम कन्यका । तदनुरागविसंस्थुलचासमंजसं विचरति । यद्वा तद्वा प्रलपति । ततः सत्यमेतत्,
यत्र वा तत्र वा नूनं कामिजनो पश्यति तन्मयं सकलम् । उन्मत्तकरसरसितः प्रेक्षते नान्यद्विना कनकम् ॥
"Aho Shrutgyanam"