________________
मोहराजपराजयम् |
पुण्यकेतुः -- ( सरभसं ) भद्र ! किमुच्यते ? चतुरोऽसि महापुरुषसंयोज
नव्यवहारवर्त्मसु । यतः
ऽङ्कः ]
इतरेतरमुत्कण्ठितमनसोः स्वपदप्रधानयोरुभयोः । अभ्यर्हितासु भूमिष्वधिकुरुते दर्शनं प्रथमम् ॥ ७ ॥ अथ तत्र कचिन्नेत्रपथमवातरत्कृपासुन्दरी देवस्य । व्यवसायसागरः --- ( १ ) अध किं ? । अवि य, तीए वि साणुरायं सुचिरं निव्वन्निो देवो ।
पुण्यकेतुः - ( सहर्ष ) यद्येवं नायकयोः पुनर्दर्शनप्रकार परिचिन्तनमेवैकमवशिष्यते ।
व्यवसायसागरः- -(२) तं पि संपन्नं ति परिभावेदु अमचो | पुण्यकेतुः -- ( सवितर्क ) कथमिव ? |
२१
व्यवसायसागरः – (३) जदो महदा निबंधेण विवेयनिवो देवेण नीदो नियमन्दिरं । वासिदो सपणयं नियचित्तसालाए ।
पुण्य केतुः - ( सप्रमोदं ) दिष्टया संपूर्णास्तर्हि मे मनोरथाः । साधु भो व्यवसायसागर ! साधु । यदेवमतिगहनमपि कार्यमक्लेशेन सम्पादितवानसि । यदि वाकिमत्र चित्रं यन्मन्त्रा दुःसाधा अपि मन्त्रिणाम् । सिध्यन्ति हेल्या दक्षैरासैरुत्तरसाधकैः ॥ ८ ॥
तद्गच्छ पुनर्विवेकराजस्य भव पारिपार्श्विकस्त्वम् । वयमपि प्रस्तुतार्थमनुसन्धातुमुद्यच्छामः ।
( इति निष्क्रान्तौ । ) विष्कम्भकः ।
धानीम् । स्थितो भगवतः श्रीहेमचन्द्रस्य तपोवने । राजर्षिणा सह कारितो गुरुसमीपे दर्शनम् । ( १ ) अथ किं ? । अपि च, तयापि सानुरागं सुचिरं निर्वर्णितो देवः ।
(२) तदपि संपन्नमिति परिभावयतु अमात्यः ।
( ३ ) यतो महता निर्बन्धेन विवेकनृपो देवेन नीतो निजमन्दिरम् । वासितः सप्रणयं निजचित्रशालायाम् ।
१ B & C अघ ई.
"Aho Shrutgyanam"