________________
२६
मन्त्रियशः पालविरचितं
[ द्वितीयो
सोमता- - ( १ ) भयवं ! इमाए गुरुयणआणाए आणन्दरसतरंगिदं मे हिदेयं । परं केण जलेण एस रुक्खो सित्तव्यु ? त्ति आइससु । ( नेपथ्ये )
साधूपन्यस्तं भवत्या । श्रूयताम्
संयमरसेन भृत्वा ध्यानोत्तमकलशमुरसि विन्यस्य । सिञ्चति यथा द्रुममिमं सखी तव तथा त्वया कार्यम् ॥ २६ ॥ सोमता - ( २ ) जं भयवं आणवेदि ।
राजा-अये ! कश्चिदेष तपोधन: ? । भवतु तावत् । वृक्षान्तरित एव द्रक्ष्यामि । ( तथा करोति विलोक्य | )
चित्रं शतदलमेतत्परिमिलदलिहरिसंश्रितश्रीकम् । धन्तेऽसौ नवशाखी नाद्भुतमद्भुतचरित्रेषु ॥ २७ ॥
अपि च
त्वत्तः शाखिन् ! दुष्टं न परं पश्यामि विश्वविश्वेषु । उद्भिनं तव कुसुमं विह्वलयति मुनिमनो यस्मात् ॥ २८ ॥ विदूषकः - (स्वगतं ) (३) कीदिसोऽयं पियवस्सस्स चित्तकिभमो ? जं एवं जंपदि । ता सयं पि पिच्छिस्सं । (प्रकाशं ) वयस्स ! अहं पि पिच्छिस्सं । राजा- -गृहाण दृशोः फलम् ।
विदूषकः -- ( आयतां कन्धरां विधाय विलोक्य च । ) ( ४ ) अच्छरियं अच्छरियं जं दाणि पायवो चन्दपस्सू जादो । तथा च
( १ ) भगवन् ! अनया गुरुजनाज्ञया आनन्दरसतरङ्गितं मे हृदयम् । परं केन जलेनैष वृक्षः सेक्तव्यः ? इति आदिश ।
(२) यद्भगवान् आज्ञापयति ।
( ३ ) कीदृशोऽयं प्रियवयस्यस्य चित्तविभ्रमो यदेवं कथयति ? । ततः स्वयमपि प्रेक्षिष्ये । वयस्य ! अहमपि प्रेक्षिष्ये ।
( ४ ) आश्चर्यमाश्वर्य यदिदानीं पादपश्चन्द्रप्रसूर्जातः ।
१ B & C हिययं. २ B C परिमलमिलदलिद्दरिश्रि
" Aho Shrutgyanam"