________________
sङ्कः ]
मोहराजपराजयम् ।
१७
राजर्षिम् ' | पुरस्तात्कथय । कीर्त्तिमञ्जरी प्राह, 'भगवन्! इमां गुणावलीं नाम ममैव धात्रीं विद्धि । यदङ्कलालिताहं वृद्धिमागता । अमुं च प्रतापं नाम मे भ्रातरमवेहि । अथ स भर्त्ता मूलादपि वीरश्रीविलासर सैकलालसोऽभूत् । मम तु स बाल्यादपि प्राणप्रियः समजनि । तदनेन दग्धास्मि प्रतिदिनं दर्शितप्रतिप्रेयसीयसंपदा । अपि च
कविभिरभितो बद्धा कण्ठे धृता बत ! बन्दिभिः किमपि गमिता दण्डैर्मूच्र्छा बुधैरवमानिता । तदिति कुपतेस्तस्यासक्ता कथं न विडम्बिता
तदपि मनसाप्यस्मिन् प्रेमा न मे लथतां गतः ॥ २९ ॥ इदं चापरमाकर्णय तचेष्टितम्
' निष्कामनिष्कलङ्काया ममोत्कीर्त्तनपर्वणि । व्रीडानम्रमुखाम्भोजः श्रयत्येष विलक्षताम् ॥ ३० ॥
अन्यदा च निष्कृपनृपनिरूपितेन त्यागनाम्ना राजपुरुषेण गुणावलीडितीया नीत्वा मुक्तास्मि जलधिवेलावनेषु । भर्तृनिर्वासनदोषदुःखाच्च दुरारोहेerror महामहीधरेषु बहुशोऽपि दत्तवती महार्णवेषु झम्पाम् । अगमं च रसातलम् । अपतं च पन्नगीमुखेषु । तथापि न विपन्ना । तत्सत्यं मरणमपि दुष्प्रापं पापकर्मणाम् । ततश्च प्राप्ता भगवतो नारदस्य निकटम् । तेन च नीता सुरस - दनम् । तत्रापि न किञ्चित्संवृत्तम् । ततः प्राप्ता मर्त्यलोकम् । स्थिता वैखानस - व्रतमादाय तपोवनेषु । अन्येद्युरुपागतो नृपसमीपादयं प्रतापो नाम मम भ्राता । तेन चेदं न्यवेदि, 'भगिनि ! संप्रत्यजनि जैनमुनिप्रियस्ते प्रणयी । तैश्चैवं विप्रतारितः । यथा
दूराद्दूरं प्रापय कीर्त्ति कल्याणहेतवे स्वस्य ।
निर्विषयं चाज्ञापय बन्धुममुष्याः प्रतापाख्यम् ॥ ३१ ॥
तचातबुद्ध्या परिगृह्य निर्वासितोऽहम् । तवापि दूरप्रापणार्थमनुपदमेष्यति धर्मशेखरनामा नवदण्डपाशिकः । तदेहि वरं स्वयं दूरीभवावः' इति । तच्चाकर्ण्य सरोषमुक्तं मया, 'भ्रातः ! स्थिताहमियन्तं कालं कुलव्रते । अधुना पुन: पश्य यत्करोमि इत्युक्त्वा प्राप्ता विश्वजयिनो मोहन्नृपतेर्निकटम् । तैस्तैश्च वचनप्रपञ्चैरं ग्राहितस्तदुपरि संरम्भं मोहमहीपतिः । कृता चानेन सर्वसमक्षमप्रतिमा प्रतिज्ञा । यथा
३
"Aho Shrutgyanam"