________________
मन्त्रियशःपालविरचितं
[ प्रथमोआजन्मनोऽप्यहह ! निर्जितचन्द्रधाम्ना
नाम्नापि या परिचयं न जगाम नाम । एनां विवेकनृपतेस्तनयां निशम्य
चेतो ममेद्भुदकण्ठत कस्य हेतोः ? ॥ २६ ॥ (प्रकाशं) भद्र ! पुरस्तात्कथय ।
ज्ञानदर्पणः-अथ तत्रापि कश्चन स्वसंबद्धमुद्न्तमधिगच्छन् निश्चलीभूय स्थितोऽस्मि तावत् ।।
राजा-साधु अनुष्ठितम् । अनिर्वेदो हि संवननबीजाक्षरं सिद्धेः। ज्ञानदर्पणः-अपरेशुश्च, देवानामपि विस्मयं विदधतीं वैवर्ण्यरोमोद्गम
स्वेदोत्कम्पमयीर्दशाश्च दिशती क्षोणीश्वराणामपि । सौन्दर्येण तपस्विनामपि मनस्युत्पादयन्ती स्पृहां
गौरागी तरुणी स्वभावसुभगामद्राक्षमेकामहम् ॥ २७॥ सा च वृद्धयैकया वनितया यूना च नरेणैकेनानुगम्यमाना मामेत्य प्रणनाम । दत्ताशिषा च पृष्टा मया 'भद्रे ! का त्वमसि?' उक्तञ्चानया भगवन् ! महती मे कथा । तथापि समासतः शृणु।अहं हि सच्चरित्रनरेन्द्रनन्दिनी नीतिदेवीकुक्षिसंभवा श्रीमत्कुमारपालदेवचक्रवर्तिप्रणयिनी कीर्तिमञ्जरी नाम ।' अथ मयोक्तं 'कल्याणि! क एष कुमारपालः' इति ।
राजा-साधु ज्ञानदर्पण ! साधु । ममैव मनसा सह संप्रधार्य पर्यनुयुक्तवानसि।
ज्ञानदर्पण:-प्रत्यपादि च तया 'भगवन् ! वैरिकुलकालकेतुं किमेत. मपि क्षत्रप्रधानं राजानं न जानासि ? । आश्चर्यमाश्चर्यम्,
एको यः सकलं कुतूहलितया बभ्राम भूमण्डलं
प्रीत्या यत्र पतिंवरा समभवत्साम्राज्यलक्ष्मीः स्वयम् । श्रीसिद्धाधिपविप्रयोगविधुरामग्रीणयद्यः प्रजां
कस्यासौ विदितो न गूर्जरपतिश्चौलुक्यवंशध्वजः ॥२८॥ अथावाचि मया 'आर्ये ! साधु ज्ञापितोऽस्मि । संप्रत्यस्मरं तं गूर्जरेश्वरं १ A & C किञ्चन.
"Aho Shrutgyanam"