________________
૮
मन्त्रियशः पालविरचितं
अहं वा न भवाम्येष जगद्विक्रमघस्मरः । न स वा भवति क्षुद्रः क्षत्रियः समराङ्गणे ॥ ३२ ॥
प्रयुक्तश्च तत्प्रकृतिषु भेदोपायः । वशीकृतं चाखिलं तद्राजमण्डलम् | संप्रति करिष्यते स तदुपरि यात्राम् । तद्भगवन् ! कथय कतरोऽनयोजयश्रीकुचकलशयोः करिष्यति मुक्ताहारलीलायितम् ? । निरर्गलज्ञाननयनो हि मुनिजनो भवति' इति । मयावाचि, 'भद्रे ! ननु प्रथममात्माभाववचसा सूचित एव मोहराजेन स्वात्मनः पराजयः । कीर्तिमञ्जरी 'हा ! धिकष्टम्, एवं चेन्नास्ति मे विश्वत्रयेऽप्यवस्थिति: ' इत्युक्त्वा गता सा वनिता । अहमपि प्राप्तो देवस्यान्तिकम्' इति ।
राजा
-
कलीनामालयो मूलं वैराणां पद्मापदाम् ।
सत्यं रक्ता विरक्ताश्च विषमेव स्त्रियो नृणाम् ॥ ३३ ॥ अपि च
साक्षात्कारे झगिति जगतां जागरूकं त्रयाणां
तार्तीयीकं प्रकृतिविशदं त्वन्मयं य॒स्य चक्षुः । सोऽहं मोहं समरशिरसि न्यस्य विश्वैकशत्रुं निर्वेक्ष्यामि प्रणयनिबिडां निर्वृतिं निर्विशङ्कः ॥ ३४ ॥ ( नेपथ्ये )
वैतालिक:
शीतांशोः स्वपरिग्रहेण महता माहात्म्यदानोद्यतो विद्विष्टोज्ज्वलराज मण्डलसरोजिन्याः प्रियंभावुकः । विश्वान्धकरणस्य शश्वद्गद्ङ्कारस्तमःसंचय
व्याधेस्तारकवर्त्ममध्यमधुना धान्नां पतिः प्राञ्चति ॥ ३५ ॥ राजा - (ऊर्ध्वमवलोक्य) अधि ! कथं ललाटंतपस्तपनस्तदतिक्रामति भैगवतो वीतरागस्य सपर्याक्षणः ? | ज्ञानदर्पण ! त्वया सततं मम संनिहितेन भाव्यम् ।
( इति निष्क्रान्ताः सर्वे 1 )
प्रथमोऽङ्कः ।
[ द्वितीयो
PIPA
" Aho Shrutgyanam"