________________
१२
मन्त्रियशपालविरचितं
[ प्रथमोराजा-उपपन्नमेतत्, निषिद्धासंस्तुतजननिर्गमप्रवेशा हि शिबिरनिवेशाः।
ज्ञानदर्पण:-अथ किम् ? तत्र हि दिवानिशं भ्राम्यन्न विश्राम्यति मोहनरेन्द्रनिरूपितो निपुणः प्रमादो नाम कटकारक्षकः।
राजा-अथ कं प्रवेशोपायमकार्षीः । ज्ञानदर्पणः-देव ! विमृश्यविश्वसनीयां मुनिमुद्रामादृत्य प्रविष्टोऽस्मि । राजा-वर्णिलिङ्गिनः प्रणिधयो भवन्तीति न केनापि पर्यनुयुक्तोऽसि । ज्ञानदर्पणः-देव ! दूरे पर्यनुयोगः प्रत्युतसत्कृतोऽस्मि पाखण्डमण्डलेन। राजा-(सकौतुकं ) आः ! कथं तत्र पाखण्डसंभवः ? ।
ज्ञानदर्पणः-देव! दुरात्मना मोहेन विजित्य स्वचरणसेवाव्रतदानेन दीक्षिताः सर्वेऽपि दर्शनिनः । राजा-अहो ! निरवधिः कोऽपि तस्य महिमा । यतःयश्चक्रे भुवनत्रयं कमलभूः शङ्के स चक्रे न यं
येनाकारि विधिन यं स कृतवान् मन्ये महाभैरवः । तस्मादेष जगद्विलक्षणकलाकौशल्यशक्त्या सुरान्
दैतेयानुरगानरांश्च सततं सर्वान्करोत्यात्मसात् ॥ १९ ॥ ( पुनः सौत्सुक्यं ) ततस्ततः।
ज्ञानदर्पणः-नीतश्चास्मि तैर्मोहमहाराजास्थानम् । दृष्टश्च स मोहमहीपालः। राजा-साधु पाखण्डमण्डल ! साधु,
अकारि युक्तं पाखण्डैर्यत्वं मोहस्य दर्शितः ।
स्वजातेः पक्षपातो हि क्रियते वायसैरपि ॥ २० ॥ भद्र ! वर्णय तस्य वैभवम् । ज्ञानदर्पणः-देव ! किमेकमस्य वर्णयामि । यतः
१ B&Cखण्डिम.
"Aho Shrutgyanam"