________________
ऽङ्कः ]
मोहराजपराजयम् । विदूषकः-(१) एवं पि भोदु । ( पादयोः पतति ।)
योगी-(शिरसि हस्तं विधाय ) भोः! समुत्खन शिखाम् , अपनय कण्ठायज्ञोपवीतं, येन योगमुद्रामारोपयामि ।
विदूषकः-(सक्रोधं ) (२) आ दासीएपुत्तग! पासंडहदग! सिहं जनोपैवीदं च अवहरिदुमिच्छसि । किं तेण सुवन्नगेण जेणे कन्नच्छेदो भोदि। ( इति दूरीभवति ।)
राजा-वयस्य ! निरुपचरितं हि वो ब्राह्मण्यं न खलु यज्ञोपवीतादिबाह्यलिङ्गसव्यपेक्षं, तदलमस्थानसंरम्भेण ।
विदूषकः-(३) णं ईदिसस्स राउलस्स दूरेण पणामो कीरदि । जत्थ बंभणा वि एवं विडंबिज्जंति ता गैमिस्सं । (इति निष्कामति ।)
राजा-(स्वगतं ) गच्छतु तावत् । योगी-स्वामिन् ! निर्मक्षिकं जातम् । राजा-ज्ञानदर्पण ईंत आस्यताम् । (ज्ञानदर्पणः योगिवेषं विमुच्योपसर्पति । ) राजा-भद्र ज्ञानदर्पण ! कच्चिदधिगतं किञ्चन रिपोरितिवृत्तम् ? । ज्ञानदर्पणः-देव ! सर्वमपि । राजा-तर्हि विस्तरतः श्रोतुमिच्छामि।
ज्ञानदर्पणः-देव ! श्रूयताम् । इतस्तावन्निष्क्रम्य गतोऽस्मि मोहराजशिबिरम् । तत्र च चिरेणापि न प्राप्तवान् प्रवेशम् ।
(१) एवमपि भवतु ।
(२) आः दास्या:पुत्रक ! पाखण्डहतक ! शिखां यज्ञोपवीतं चापहर्तुमिच्छसि ? । किं तेन सुवर्णकेन येन कर्णच्छेदो भवति ।
(३) ननु ईदृशो राज्ञो दूरेण प्रणामः क्रियते । यत्र ब्राह्मणा अपि एवं विडम्ब्यन्ते, ततो गमिष्यामि ।
१ B& C°वं भो. २ B&C दत्त्वा. ३ B पवीयं. ४ A जदो. ५ B&C गच्छिस्सं. A इव आ.
६
"Aho Shrutgyanam"