________________
मन्त्रियशःपालविरचितं
[ प्रथमो
विदूषकः-(१) अध कधं जुग्गो होमि? । योगी-यद्यस्मासु गुरुबुद्धिं बध्नासि। विदूषकः-(२) मह बंभणी दावममं सुरगुरु त्ति वाहरैदि।तधाविभोदु। योगी-तर्हि एहि प्रपद्यस्व योगिदीक्षाम् ।
विदूषकः-(३) न खु न खु चउवेयपुत्तगो भोदुं सुद्ददिक्खं पवज्जिय अप्पाणं विगोविस्सं।
राजा-वयस्य ! मा मैवम्, ___ यथा तथा स्वार्थनिष्ठर्भवितव्यं विचक्षणैः।
श्रूयते रासभस्यापि ममर्द चरणौ हरिः ॥ १८ ॥ तत् क्रियतामेतत् । विदूषकः-(४) जदि एवं ता देहि मे नियदिक्खं । योगी-तर्हि समीपमुपसर्प । (विदूषकः तथाकरोति) योगी-पत मे पादयोः।
विदूषकः-( सदैन्यं) (५) परित्तायध भो! परित्तायध मं । नियबंभणीए विणा जो अन्नस्स चलणेसु आजम्मं न पडिदो सोऽहं मोहे, पासंडिणा पाएसु पौडीयामि ।
राजा-वयस्य ! किमेवमविवेकवानसि ? | प्रणामो हि प्रथमे प्राणा विनयव्रतस्य।
(१) अथ कथं योग्यो भवामि ? । (२) मम ब्राह्मणी तावन्मां सुरगुरुरिति व्याहरति तथापि भवतु । (३) न खलु न खलु चातुर्वेदपुत्रको भूत्वा शूद्रदीक्षां प्रतिपद्यात्मानं विगोपिष्ये । (४) यदि एवं ततो देहि मे निजदीक्षाम् ।
(५) परित्रायख भोः ! परित्रायस्व माम् । निजब्राह्मण्या विना योऽन्यस्य चरणेषु आजन्म न पतितः सोऽहं मोहयित्वा पाखण्डिना पादयोः पात्ये ।
१ B & C जोग्गो. २ B& C रति. ३ B& C पाडियामि.
"Aho Shrutgyanam"