________________
ऽङ्कः]
मोहराजपराजयम् । दग्धं येन पुरातनं तृणमिवायत्नात्पुराणां त्रयं ___ यस्य प्रज्वलतो नभस्तलमिदं धूम्यायते सर्वतः। यत्र त्रीण्यपि विष्टपान्युपययुः सान्याय्यलेशश्रियं
मोहे तत्र जलात्मतां स गतवान् ब्यक्षस्य नेत्रानलः ॥२१॥ अपि च
बललीलायितं दृष्ट्वा तस्य मोहमहीपतेः ।
कान्दिशीको भवत्येव कालिन्दीसोदरः प्रभो! ॥ २२ ॥ अपि च--
अमराः किङ्करायन्ते दासायन्ते च दानवाः ।
दीनास्तपोधनास्तस्य पुरो वीरशिरोमणेः ॥ २३ ॥ राजा-(सरोमाञ्चं) हृदय ! दिष्टया वर्धामहे संग्राममहोत्सवेन । (इति सरभसमुत्थातुमुत्सहते।)
ज्ञानदर्पणः-देव ! मा मैवं वर्णनेयं तस्य नास्ति प्रत्यक्ष प्रतिपक्षः। राजा-( सलज्जं ) ततस्ततः ।
ज्ञानदर्पणः-एवं च बहून्यपि अहानि स्थित्वा न किञ्चित्तन्मन्त्रमधिगतवानस्मि ।
राजा-गूढमन्त्रता हि जीवितं राजनीतेः।
ज्ञानदर्पणः-अथान्येारकस्मानिर्भरं प्रादुर्बभूव भैरवः सन्नाहभेरीरवः। तदाकर्णनाकुलमिलत्सैनिकचक्रवालश्चचाल कस्याप्यभिमुखं मोहमहीपालः ।
राजा-(सविस्मयं ) ततस्ततः।
ज्ञानदर्पणः-अहमपि कुतूहलात्सहैव चलितवान् । गत्वा चानेन पर्यवेष्टि विवेकचन्द्राह्वयनृपतेर्जनमनोवृत्तिर्नाम राजधानी।
राजा-अहह ! निर्व्याजमोजायितं विजिगीषूणाम् ।
ज्ञानदर्पण:---सहसोपस्थितं च परचक्रमालोक्य पर्याकुलोऽभवत्पौरलोकः।
राजा-ततः कच्चिदभ्यमित्रीणतां प्रपन्नो विवेकराजः ? ।
"Aho Shrutgyanam"