________________
ऽङ्कः ]
मोहराजपराजयम् |
विदूषकः - (स्वगतं ) ( १ ) असज्झो एस वाही । ता उविक्खिस्सं । ( प्रकाश ) भो वयस्स ! चिरादो छुहाकरालिदोन सक्कुणोमि तए सह चत्तरियं का |
नम् ।
( नेपथ्ये )
हो प्रतीहार ! निवेदय मदागमनं मनुजेश्वरस्य ।
प्रतीहारः - भोः ! संप्रति परमार्हतो देवो नाभिनन्दति भवादृशां दर्श
( पुनर्नेपथ्ये )
हो प्रतीहार ! बहु मन्यते नितमामस्मद्दर्शनं परमयोगी देवः । अपि च, मत्समागमसुखमवलोकते वः स्वामिनो मनोरथसिद्धिः । राजा - ( श्रुत्वा ) कस्कोऽत्र भोः ! |
( प्रविश्य )
पुरुषः- - (२) आणवेदु देवो ।
राजा - लोकाचार ! याहि जानीहि क एष मद्दर्शनमभिलषति । पुरुषः- (३) जं देवो आणवेदिति । (निष्क्रम्य प्रविश्य च ) देव ! दुवारपालपडिक्खलिदो जोगिंदो को वि ।
राजा - (स्वगतं सावज्ञं ) किमनेन । अथवा पश्यामस्तावत् । ( प्रकाशं ) भद्र ! मदाज्ञया कर्मविवरं प्रतीहारमुक्त्वा मोचयित्वा पुरस्कृत्य चैनं प्रवेशय । पुरुषः-- (४) जं देवो आणवेदिति । (निष्क्रम्य योगिना सह पुनः प्रविश्य च ) इदो इदो एदु तत्तभवं ।
योगी – (परिक्रामन् सविमर्श) अहो ! साधूक्तम्, तस्याजननिरेवास्तु नृपशोर्मोघजन्मनः ।
अविकर्णो यो योग इत्यक्षरशलाकया ॥ १४ ॥
( १ ) असाध्य एष व्याधिस्तत उपेक्षिष्ये । भो वयस्य ! चिरात्क्षुधाकरालितो न शक्नोमि त्वया सह चटत्तरितं कर्त्तुम् |
( २ ) आज्ञापयतु देवः ।
( ३ ) यद्देव आज्ञापयतीति । देव ! द्वारपालप्रतिस्खलितो योगीन्द्रः कोऽपि ।
( ४ ) यद्देव आज्ञायतीति । इत इत एतु तत्रभवान् ।
"Aho Shrutgyanam"