________________
मन्त्रियशपालविरचितं
[प्रथमो- (पुरोऽवलोक्य च सहर्षे) स एष निःशेषधर्मवीरप्रवरो राजर्षिः कुमारपालदेवः । अस्य हि
अमन्दमुद्यत्पुलकाडराभिः
सुरीभिरुच्चैरुपवीणितानि । शृणोत्यजस्रं चरिताइतानि
धुन्वन् शिरः सोऽपि सुराधिराजः ॥ १५॥ राजा-(विलोक्य सप्रत्यभिज्ञं ) कथमयं मोहरिपुस्वरूपनिरूपणाय नियुक्तो मुनिवेषो ज्ञानदर्पणो नाम ममैव प्रणिधिः ।
विदूषकः-( विलोक्य सभयं ) (१) भो एगेण पासंडिणा तुमं छलिदो। एस दुदीओ ममं छलिदुं एदि ता नस्सिस्सं ।
राजा-अयि कातर ! मा भैषीः । ननु मत्समीपस्थोऽसि ।
विदूषकः-(सावष्टम्भं) (२) अधवा तुह वयंस म्हि ता न बीहिस्सं । जदि एस ममं छलिदुं धाविस्सदि ततो नूणमेदिणा दंडकडेण ताडिस्सं ति । (दण्डकाष्ठं परामृशति)
राजा-वयस्य ! अलमलमलीकारम्भेण, अभ्यागतः खल्वयं नार्हत्यवमाननाम् ।
विदूषकः-(३) एवं भोदु। पुरुषः-(४) एस देवो, उवसप्प णं। योगी-( उपसl ) राजर्षे ! योगेनावियुक्तो भूयाः।
राजा-योगिन् ! इदमासनमास्यताम् । लोकाचार ! त्वमपि स्वनियोगमलङ्गुरु।
(पुरुषो निष्क्रान्तः) (१) भो एकेन पाखण्डिना त्वं छलितः । एष द्वितीयो मां छलयितुमेति ततो नङ्ख्यामि ।
(२) अथवा तव वयस्योऽस्मि ततो न भेष्ये । यदि एष मां छलयितुं धाविष्यति ततो नूनमेतेन दण्डकाष्ठेन ताडयिष्यामीति ।
(३) एवं भवतु । (४) एष देवः, उपसर्पमम् । १ B & C वयंस म्हि. २ B & C अलमलीकसं.
"Aho Shrutgyanam'