________________
मन्त्रियशःपालविरचितं
[ प्रथमो
न संभावसि अवरोहं, न बहु मन्नसि संगीदरसं । अधवा मह ज्जेव इक्कस्स अपुन्नोदएण ईदिसो तं जादोऽसि । जदो जप्पमुदि तस्स सेयंबरधुत्तस्स दंसणं संवृत्तं तप्पमुदि निसाए न भुंजसि । दिवा वि अणिडमधुरमदिकंतवेलं अबहुवंजणं इदरु व्व जं वा तं वा जेमसिं । ता सचमेदं वरस्स खलु भोयणे जन्नजता पंसुति । अदो पसीद पडिवज्ज पगिदिं ।
राजा - (विहस्य ) धिग्मूर्ख ! न युक्तमुक्तवानसि । ग्रामीण इव नागरकवृत्तस्याऽलब्धास्वादोऽसि प्रशमरसस्य । पश्य पश्य,
मिथ्यात्वतिमिरच्छन्नमुपदेशशलाकया । ज्ञानचक्षुर्गुरुर्दिष्ट्या ममेदमुद्घाटयत् ॥ १० ॥
अपि च
किं राज्येन गुरोरुपास्तिरनिशं चेल्लभ्यते निर्भरा किं शुद्धान्तपुरन्धिभिर्धृतिवधूसङ्गो यदि प्राप्यते । किं सङ्गीतरसेन चेज्जिनवचः पीयूषमापीयते
मोहाहूहि यथा तथा मम पुनलीनं मनो ब्रह्मणि ॥ ११ ॥
किश्च
उच्छिष्टं क्रियते चरद्भिरभितो यत्प्रेतभूतादिभिर्ध्वान्तक्लान्तदृशो न यत्र पततः पश्यन्ति जन्तूनणून् । बाधन्ते स्मृतयो यदाहुरधमं यद्वैद्यविद्याविद
स्तन्निः शूकमनाः करोति नृपशुः कश्चिन्निशाभोजनम् ॥ १२ ॥
अन्यच-
हृद्ये अप्यन्नपानीये स्यातामुबार मूत्रसात् । अतः सारेतराहारविचारावसरः कुतः ॥ १३ ॥
न संभावयसेऽवरोधम्, न बहु मन्यसे सङ्गीतरसम्, अथवा ममैवैकस्यापुण्योदयेनेदृशस्त्वं जातोऽसि । यतो यत्प्रभृति तस्य श्वेताम्बरधूर्त्तस्य दर्शनं संवृत्तं तत्भृति निशायां न भुझे । दिवापि अस्निग्धमधुरमतिक्रान्तवेलमबहुव्यञ्जनमितर इव यद्वा तद्वा जेमसि । ततः सत्यमेतद् वरस्य खलु भोजने जन्ययात्रायां पांशुरिति । अतः प्रसीद प्रतिपद्यस्व प्रकृतिम् !
१ A जेमेसि
"Aho Shrutgyanam"