________________
११
हा वच्छ ! पिच्छ लच्छी तए विणा जाइ रायहरं ॥
एतत् श्रुत्वा राजा चिन्तितवानेवम्
नरकान्तं भवेद्राज्यमित्यायै यदुदीर्यते । तन्नूनं रुदतीवित्तसमाकर्षणपाप्मना ॥
पृष्टवांश्व के एते स्त्रियौ ? |
महाजन :- देव ! कुबेरमाता गुणश्रीरेषा, अपरा तु कमलश्रीस्तज्जाया । अत्रान्तरे--- वीक्ष्य तंत्र कुबेरस्य जायामाक्रन्दकारिणीम् ।
मातरं च हा वत्स ! क गतोऽसीति वादिनीम् ॥
तत्रासने च सिंहासनाधिरूढः प्राह - हे मातः ! किमेवं शोकविकुवाऽसि ? यतः - कीटाद्यावदिन्द्रं मरणमसुमतां निश्चितं बान्धवानाम्, सम्बन्धश्चैकवृक्षोषितबहुविहग व्यूह साङ्गत्य तुल्यः । प्रत्यावृतिर्मृतस्योपलतल निहितप्लुष्टबीजप्ररोह
प्राया प्राप्येत शोकात्तदयमकुशलैः क्लेशमात्मा मुचैव ॥
इत्युपदिश्य पृष्टा, कः समायातः ? । गुणश्रीराह वामदेवनामा मित्रम् । आकारितश्च स राज्ञा प्रष्टश्च समुद्रगमनादि वृत्तम् । वामदेवोऽपि नत्वा विज्ञपयति स्म । देव ! श्रीचौलुक्यचन्द्र ! इतः कुबेरव्यवहारी चतुर्षु महत्तरेषु गृहसारं न्यासीकृत्य भृगुपुरात् पञ्चपञ्चशतमनुष्योपैतपश्चशतप्रत्रहणैः प्राप्तः परकूलम् । तत्र चतुर्दशकोटिस्वर्णलाभः । ततः प्रतिनिवृत्तानां प्रतिकूलवायुना पञ्चशतप्रवहणानि पातितानि विषमगिरिवलयसङ्कटे । पूर्वमपि तत्र कस्यचित् पञ्चशतप्रवहणानि पतितानि सन्ति । पोतानामनिर्गमेन बाढं विषण्णः सपरिवारः कुबेरस्वामी । अत्रान्तरे समागतः कश्चिन्नौवित्तो नावारूढः । भणितं च तेन, भो लोकाः ! दर्शयामि निर्गमोपायम् । भणितश्च कुबेरेण भो बान्धव ! कुतः समायातः ? किं नाम च ? इति । ततस्तेनोक्तम्, अस्त्यत्रासन्ने पञ्चशृङ्गो द्वीपः । तत्र सरयसा
राजा । तेन चैकदा मृगयागतेन हता सगर्भा मृगी । मृगोऽपि तन्मरणं दृष्ट्वा स्वयं मृतः । तेन वैराग्येण सत्यसागरनृपेण स्वदेशेऽमारिपटहो दापितः । अद्य पूर्वप्रेषित कीरमुखाद्युष्मदाप ज्ञात्वाऽहं नौतासो नाविको निर्गमोपायदर्शनाय प्रहितोऽस्मि राज्ञा । कुमारभूपः अहो ! महात्मनो महती कृपा सर्वसत्त्वाधारिणी । ततः किम् ? | वामदेवः — देव कुबेरस्वामिना निर्गमोपायं पृष्टः । प्राह नाविकः, एतस्य गिरेः कटके द्वारमस्ति । तेन प्रविश्य गिरेः परत्रपार्श्वे गम्यते । तत्र पुरमुद्वसमस्ति । तत्र च जिनचैत्ये गत्वा पटहा वाद्यन्ते । तेषां महता निस्वनेन गिरिशृङ्गसुप्ता रात्रौ भारु
पक्षिणः समुड्डीयन्ते । तेषां पक्षवातेन प्रवहणानि मार्गे पतिष्यन्तीति । तदनु कुबेरस्वामिना तत्र गमनाय पृष्टाः सर्वे जनाः, कोऽपि न प्रतिपद्यते । ततोऽसमसाहसी परमकृपापरवशः कुबेर एव गतः । नाविको क्तमनुष्ठितं तत्र गत्वा । निर्गतानि सहस्रप्रवहणानि भृगुपुरे च प्राप्तानि क्षेमेणेति । मतोऽप्रतः कुबेरस्वरूपं नावगच्छामि । एवं विंशतिकोटिस्वर्णाष्टकोटिरौप्य सहस्र तुला मितरत्नादिकुबेरवनं नृपगृहानुपतिष्ठते, इत्युक्ते महत्तरैर्निरीहशिरोमणिः तद्द्रव्यं तृणवद्गणय्यैवंविधासमदयासासधनी स पुरुषोत्तमः जीवन्नेव समागध्यतीति गुणश्रियमाश्वास्य यावता पञ्चान्निर्गच्छति arear
" Aho Shrutgyanam"