________________
द्रव्यं राजा यद्यात्मसात् कुरुते तदा तस्यौद्धदेहिकं क्रियते । कियत्तद्धनम् ? इति पृष्टेऽतिपुष्कलमित्याहुस्ते महत्तराः। ततः कृपापरिणीतो राजा स्वचेतसि चिन्तितवानेवम्
आशाबन्धादहह ! सुचिरं सञ्चितं क्लेशल::
केयं नीतिर्नुपतिहतका यन्मृतस्वं हरन्ति । क्रन्दन्नारीजघनवसनक्षेपपापोत्कटाना
माः किं तेषां हृदि यदि कृपा नास्ति तरिक त्रपाऽपि । ततो भो महत्तराः! मया मृतस्वग्रहणं तृतीयव्रतप्रतिपत्त्यक्सरे श्रीगुरुपादपार्श्वे प्रत्याख्यातम्, परं कौतुकात्तस्य व्यवहारिणो गृहं गृहसारं च विलोकयामः, इत्युक्त्वा महत्तरादिपरिवृतः सुखासनाधिरूढस्तगृहमाजगाम राजकुञ्जरः । तदनु सौवर्णकलशपरम्पराकणकिङ्किणीकाणवाचालितन्योममण्डलं कोटिध्वजावलिहस्तिशालातुरगशालादिविराजितं तं कुबेरगृहं विलोक्य प्राह नृपः
पर्यायस्तुहिनाचलस्य यमकं पीयूषकुण्डस्य च __ क्षीराब्धेरभिधान्तरं प्रतिकृतिः शीतांशुलोकस्य च । वीप्सा चन्दनकाननोदरभुवोऽभ्यासश्च धारागृह
स्यार्हचैत्यमिदं प्रपञ्चयति नः शैत्यं वपुश्चेतसोः ।। तत्र चैत्ये मरकतमणिमयीं श्रीनेमिजिनप्रतिमां नमस्कृतवान् । रात्नसौवर्णकलशस्थालारात्रि कमङ्गलप्रदीपादिदेवपूजोपकरणादि विलोक्य कुबेरपुस्तिकास्थं परिग्रहपरिमाणपत्रं वाचितवान् । यथा
गुरुपादकमलमूले गृहमेधिजनोचितानिमानियमान् । प्रतिपद्यते कुबेरो वैराग्यतरङ्गितस्वान्तः ॥ १॥ जन्तून् हन्मि न वच्मि नानृतमहं स्तेयं न कुर्वे परस्त्री____ों यामि तथा त्यजामि मदिरां मासं मधु म्रक्षणम् । नक्तं नानि परिग्रहे मम पुनः स्वर्णस्य षट्कोटय
स्तारस्याष्ट तुलाशतानि च महार्हाणां मणीनां दश ॥२॥ कुम्भखारीसहस्रे द्वे, प्रत्येक स्नेहधान्ययोः। - पञ्चायुतानि वाहानां सहस्रमपि हस्तिनाम् ॥ ३ ॥ अयुतानि गवामष्टौ ८०००० पञ्च पञ्च शतानि च । हलाट्टसद्मनां यानपात्राणामनसामपि ॥ ४ ॥ पूर्वजोपार्जिता लक्ष्मीरियत्यस्तु गृहे मम ।
इतो निजभुजोपात्तां करिष्ये पात्रसात्पुनः ॥५॥ एवं कुबेरव्यवहारिऋद्धिपत्रवाचनेन हृतहृदयो राजा गृहाङ्गणे यावदागच्छति तावता कुबेरमाता गुणश्रीः
पुत्तकुबेर ! गुणायर ! गओसि तं कत्थ देहि पडिवयणम् ।
"Aho Shrutgyanam"