________________
सत्पात्रं परिचिन्त्य धर्मनृपतिस्तुभ्यं स्वपुत्री दौ
तद्योगात्त्वमजायथाखिभुवने श्लाघ्यप्रियासनमः। स्मृत्वास्योपकृति निहत्य च रिपुं मोहाख्यमत्युत्कटं
राज्येऽप्येनमधाः कृतज्ञ ! सुचिरं चौलुक्य ! नन्द्यास्ततः॥ इति श्रीगुरुदत्ताशीर्वादमुदितमनाः स्वसौधमलङ्कृतवान् । तदनु स्वजनकराज्यस्थापनवैरिमोहमारितिरस्कारसततात्माज्ञाकारितादिगुणसंपत्तोषितया प्रतिदिनप्रवर्धमानप्रेमप्रकर्षातिशयया कृपासुन्दरीदेव्या सह निस्सीमसौख्याम्बुधिमनो धर्मसाम्राज्याद्वैतमयं विश्वं चकार ।
II निष्पुत्रो म्रियते यो यस्तस्य तस्य हताशयाः।
पुत्रता प्रतिपद्यन्ते नृपाः कष्टं धनाशया ॥ तदयप्रभृति मुक्तमेव मया मृतसर्वस्वम् , भवतु मे तृतीयव्रतानीकारः संसारतारणायेति प्रतिपंद्य राजपर्षदि सर्वसामन्तादिसमक्षं पञ्चकुलमाकार्य पृष्ट्वा च प्रतिवर्ष द्वासप्ततिलभद्रव्यायपदं ज्ञात्वा सन्तोषपोषितात्मा रुदतीवित्तं मुक्तवान्, पाटितं च पट्टकपत्रम् । तथा
निःशूकैः शकितं न यन्नृपतिभिस्त्यक्तुं कचित् प्राक्तनैः,
पल्याः क्षार इव क्षते पतिमृतौ यस्यापहारः किल । आपाथोधि कुमारपालनृपतिर्देवो रुदत्या थनं,
बिभ्राणः सदयं प्रजासु हृदयं मुञ्चत्ययं तत्स्वयम् ॥ इति मृतस्वपरिहारपटहो दापितोऽष्टादशदेशेषु । अथान्यदा सर्वावसरसभामुपेयुषि श्रीचौलु. क्यदेवे
प्रतीहारः प्राह-देव ! महाजनो द्वारे तिष्ठति देवदर्शनार्थी । राजा-प्रवेशय सद्यः।
ततः प्रतीहाराहूताश्चत्वारो महत्तरा आगत्य राजानं प्रणम्य लब्धासना वैलक्ष्योपलक्षिता उपविष्टाः।
राजा-को हेतुरद्य राजसभाऽऽगमे ? । किमिदं वैलक्ष्यमिति किं कोऽपि पराभवोऽसमाधिोपद्रवो वा कोऽपि ? । तदनु महाजना:
कुतः प्रजानां राजेन्द्र ! त्वयि शासति मेदिनीम् । पराभवोऽसमाधिर्वा जायते जनवत्सल ! ॥१॥ कदाचिदन्धकारः स्याद्विश्वे भास्वति भास्वति ।
परं त्वदुदये स्वामिन् ! न किञ्चिदसमञ्जसम् ॥२॥ परमत्रत्यो गूर्जरनगरवणिग्मूर्द्धन्यः कुबेरश्रेष्ठी देवपादविदितो बहुस्वर्णकोटिष्वमः समुद्रे समा. गच्छन् कथाशेषतया स्वामिपादानामसेवकतामगादिति तत्परिच्छदो निष्पुत्र आक्रन्दनस्ति । तदृह
"Aho Shrutgyanam"