________________
८
तत्किं न प्रसभं श्रुतोऽप्यरिवधूवैधव्य दीक्षागुरुः । येनैवं पुरगोपुरैकसुहृदा वक्रेण वल्गनलम्
धत्से सुप्तमृगारिजागरविधिं स्वं हन्तुमेव स्वयम् ॥
चौलुक्यः - अरे मोह ! किमेवंविधवाग्डम्बरमात्रमातनोषि, मुश्च मुध्व प्रथमं प्रहारं दत्तोऽयं तवावकाशः । अप्रहरत्सु प्रहरणकलाकुशला न खलु चौलुक्या: ।
विश्व प्रतिज्ञां मे, जित्वा त्वां प्रधनेऽधुना । धर्मं चेत्स्थापये राज्ये, तदाऽहं वीरकुञ्जरः ॥ १ ॥ तन्निशम्य भृशं क्रुद्धो, मोहो वीरधुरन्धरः । अस्त्राणि वर्षितुं लग्नो जलानीव पयोधरः ॥ २ ॥
राजाऽपि प्रत्यस्त्रैस्तानि निराकृतवान् । एवं रणोत्सवे श्रीराजर्षिर्ब्रह्मास्त्रमादाय यावन्मोहं निपातयति तावत्
तैस्तैः शस्त्रैरमोषैः स्वजनधनवधूसङ्गसाम्राज्यमुख्यैः, कुण्ठीभूतैर्नृभर्तुः पविमयकवचं बिभ्रतो योगमङ्गे । मुक्त्वा लज्जां रणं च द्विप इव सहसा सिंहनादेन दैन्याद्, गीर्वाणैर्द्दश्यमानः सदयमयमपक्रान्तवान् मोहराजः ॥
सर्वे ( सहर्ष ) – प्रियं नः प्रियं नः ( सहसोपसृत्य ) जयतु जयतु राजर्षिः ।
सम्यग्दृष्टिदेवाः पुष्पवृष्टिं व्यधुः । सर्वत्र जयजयारवः । श्रीपरमार्हतो धर्मराजं प्रणम्योवाच, श्रीधर्मभूमीन्द्र ! त्वदनुग्रहान्निस्तीर्णप्रतिज्ञोऽस्मि तदलङ्कुरु स्वराजधानी निर्मलमनोवृत्तिमिति विज्ञप्तः परमां मुदमधिगतः सन् श्रीधर्मोऽपि स्वराज्य पदवीमारोपितः प्राह श्रीकुमारभूपम्, राजन् ! भूयः किं ते प्रियं करोमि ? |
श्रीचौलुक्य:--
निर्वीराधनमुज्झितं विदलितं द्यूतादिलीलायितम्, देवानामपि दुर्लभा प्रियतमा प्राप्ता कृपासुन्दरी । ध्वस्तो मोहरिपुः कृता जिनमयी पृथ्वी भवत्संगमात्, तीर्णः सङ्गरसागरः किमपरं तत्स्याद्यदाशास्महे ॥
तथाऽपीदमस्तु —
श्रीश्वेताम्बरहेमचन्द्रवचसां पात्रे मम श्रोतसी, श्रीसर्वज्ञपदारविन्दयुगले भृङ्गायितं चेतसः । त्वत्पुत्र्या कृपया समं परिचय योगस्त्वया सर्वदा,
भूयान्मे भुवने यशः शशिसखं मोहान्धकारच्छिदे ॥
एवं श्रीधर्मभूपं स्वराज्ये निवेश्य धर्मशालायामागत्य वन्दिताः श्रीगुरुपादाः । विज्ञप्तः सर्वोst मोहविजय श्रीधर्मस्थापनादिवृत्तान्तः । श्लाघितश्चेत्थम् । यथा
"Aho Shrutgyanam"