________________
१२
कुबेरो विमानाधिरूढः सजायः समागात् । विमानादवतीर्य मातुः पादौ प्रणम्य राजानं प्रणनाम | राजा सर्वोऽपि महाजनः अहो ! महदाश्चर्य कुबेरः समायात इति वदन्ति ।
राजा च पृष्टवान् । हे साहसघन ! शून्यपूरे किमभूत् ? ।
कुबेरः - स्वामिन् ! तत्र पुरे एकत्र प्रासादे कन्या दृष्टा पृष्टा च । तया चोक्तम्---अत्र पातालतिलकपुरे पातालकेतुर्विद्याधरो राजा । पातालसुन्दरी भार्या । तयोः सुतां पातालचन्द्रिकानानी मां कन्यां विद्धि । स च मत्पिता मांसलोलुपतया कियता कालेन मार्जारीभक्षितपूर्व संस्कृतमांसाभावाद्बन्धुकीत्यक्त बालमांसभक्षणसंजातमहामांसाशनव्यसनो राक्षसोऽजनि । नगरं सर्वे भ क्षितम् | सम्प्रति स्वाहाराय कापि गतोऽस्तीति । अत्रावसरे पातालसुन्दरी समायाता । पातालकेतुरपि भार्यया पर्यवसाय कन्यां परिणायितोऽहम् । मयापि पातालकेतुः प्रतिबोधितः । तेन विद्यावरेण विमानमारोप्य सभार्योऽहमत्रानीय मुक्तः । स च स्वस्थानं प्राप्तः इति श्रुत्वा विस्मितः श्री चौलुक्यः प्राह
1
निर्मूल्यं गणितं निजं परपरित्राणे तृणं जीवितं
पाणौ कृत्य नभश्वरीयमचिरात्कल्याणिनी प्रीणिता । प्राप्तः कोणतां नृपो विधिवशाद्धर्माध्वनि स्थापित:
स्वं धामनुसृतं कुबेर ! भवता किं किं कृतं नाद्भुतम् ? ॥
गृहाण च स्वलक्ष्मी कुबेरदत्त ! इत्यभिनन्द्य गुरुवन्दनाय जगाम - तत्कर्तव्यं नृपोपज्ञं विज्ञाय जनतामुखात् । उच्चैश्च मत्कृतश्चित्ते हेमाचार्यस्तमूचिवान् ॥ १ ॥ न यन्मुक्तं पूर्वै रघुनघुषनाभाकभरत
प्रमृत्युर्वीनाथैः कृतयुगकृतोत्पत्तिभिरपि । विमुञ्चन् संतोषात्तदपि रुदतीवित्तमधुना,
कुमारक्ष्मापाल ! त्वमसि महतां मस्तकमणिः ॥ २ ॥ अपुत्राणां धनं गृह्णन् पुत्रो भवति पार्थिवः । त्वं तु सन्तोषतो मुभ्वन् सत्यं राजपितामहः ॥ ३ ॥ इत्थं श्रीगुरुणा नरेश्वरशतैराशास्यमानो मुदा
निर्वीराभिरनेकधा च सकलैर्लोकैः स लोकोत्तरः । लक्षाणां द्रविणस्य रेणुवदिह द्वासप्ततिं वर्जयन्
प्रत्यब्दं स्तुतिभाजनं न हि भवेत्कस्य प्रशस्यात्मनः ॥ ४ ॥
(From Jinamandana's Kumâra pâla pra band ha.,
"Aho Shrutgyanam"