________________
येऽहद्धर्मद्विषः केऽपि पांडुराहद्विजादयः । तेऽपि तस्याज्ञया गर्भश्रावका इव भाविनः ॥ ६२ ।। अपूजितेषु चैत्येषु गुरुष्वप्रणतेषु च।। न भोक्ष्यते स धर्मज्ञः प्रपन्नश्रावकव्रतः ॥ ६३ ॥ अपुत्रमृतपुसां स द्रविणं न ग्रहीष्यति । विवेकस्य फलं ह्येतदतृप्ता ह्यविवेकिनः ॥ ६४॥ पांडुप्रभृतिभिरपि त्यक्ता या मृगया नहि । स स्वयं त्यक्ष्यति जनः सर्वोऽपि च तदाज्ञया ।। ६५ ।। हिंसानिषेधके तस्मिन् दूरेऽस्तु मृगयादिकम् । अपि मत्कुटधूकादि नान्त्यजोपि हनिष्यति ॥ ६६ ।। तस्मिन्निषिद्धपापार्द्धावरण्ये मृगजातयः । सदाप्यविनरोमन्था भाविन्यो गोष्ठधेनुवत् ॥ ६७ ॥ जलचरस्थलचरखेचराणां स देहिनाम् । रक्षिष्यति सदा मारिं शासने पाकशासनः ॥ ६८ ॥ ये चाजन्मापि मांसादास्ते मांसस्य कथामपि । दुःस्वप्नमिव तस्याज्ञावशान्नेष्यंति विस्मृतिम् ।। ६९॥ दशाहने परित्यक्तं यत्पुरा श्रावकैरपि । तन्मधमनवद्यात्मा स सर्वत्र निरोत्स्यति ॥ ७० ॥ स तथा मद्यसन्धानं निरोत्स्यति महीतले। न यथा मद्यभांडानि घटयिष्यति चयपि ॥ ७१ ॥ मद्यपानां सदा मद्यव्यसनक्षीणसंपदाम् । तदाज्ञात्यक्तमद्यानां प्रभविष्यन्ति संपदः ।। ७२ ॥ नलादिभिरपि क्ष्मापैयूँतं त्वक्तं न यत्पुरा । तस्य स्ववैरिण इव नामाप्युन्मूलयिष्यति ॥ ७३ ॥ पारापतपणक्रीडाकुक्कुटायोधनान्यपि । न भविष्यन्ति मेदिन्यां तस्योदयिनि शासने ।। ७४ ॥ स प्रायेण प्रतिग्राममपि निःसीमवैभवः । करिष्यति महीमेतां जिनायतनमंडिताम् ॥ ७५ ॥ प्रतिग्रामं प्रतिपुरमासमुद्रं महीतले। रथयात्रोत्सवं सोऽर्हत्प्रतिमानां करिष्यति ।। ७६ ॥ दायं दायं द्रविणानि विरचय्यानृणं जगत् । अंकयिष्यति मेदिन्यां स संवत्सरमात्मनः॥ ७७ ॥
From H.emachandra's Mahaviracharitra canto XII
"Aho Shrutgyanam"