________________
APPENDIX II कुमारपालो भूपालश्चौलुक्यकुलचन्द्रमाः । भविष्यति महाबाहुः प्रचंडाखंडशासनः ॥ ४६ ॥ स महात्मा धर्मदानयुद्धवीरः प्रजां निजाम् । ऋद्धिं नेष्यति परमां पितेव परिपालयन् ॥ ४७॥ ऋजुरप्यतिचतुरः शान्तोऽप्याज्ञादिवस्पतिः । क्षमावानप्यधृष्यश्च स चिरं क्ष्मामविष्यति ॥४८॥ स आत्मसदृशं लोकं धर्मनिष्टं करिष्यति । विद्यापूर्णमुपाध्याय इवान्तेवासिनं हितः ॥ ४९ ॥ शरण्यः शरणेच्छूनां परनारीसहोदरः। प्राणेभ्योऽपि धनेभ्योऽपि स धर्म बहु मस्यते ॥ ५० ॥ पराक्रमेण धर्मेण दानेन दययाज्ञया । अन्यैश्च पुरुषगुणैः सोऽद्वितीयो भविष्यति ॥ ५१ ॥ स कौबेरीमातुरुष्कमैन्द्रीमात्रिदशापगाम् । याम्यामाविन्ध्यमावाधि पश्विमा साधयिष्यति ।। ५२ ।। अन्यदा वशाखायां मुनिचन्द्रकुलोद्भवम् । आचार्य हेमचंद्रं स द्रक्ष्यति क्षितिनायकः ॥ ५३ ॥ तदर्शनात्प्रमुदितः केकीवांबुददर्शनात् । तं मुनि वंदितुं नित्यं स भद्रात्मा त्वरिष्यते ॥ ५४ ॥ तस्य सूरेजिनचैत्ये कुर्वतो धर्मदेशनाम् । राजा सावकामात्यो वन्दनाय गमिष्यति ॥ ५५ ॥ तत्र देवं नमस्कृत्य स तत्त्वमविदन्नपि । वन्दिष्यते तमाचार्य भावशुद्धेन चेतसा ।। ५६ ।। स श्रुत्वा तन्मुखात्प्रीत्या विशुद्धां धर्मदेशनाम् । अणुव्रतानि सम्यक्त्वपूर्वकाणि प्रपत्स्यते ॥ ५७ ॥ स प्राप्तबोधो भविता श्रावकाचारपारगः । आस्थानेऽपि स्थितो धर्मगोष्टया स्वं रमयिष्यति ॥ ५८ ॥ अन्नशाकफलादीनां नियमांश्च विशेषतः । आदास्यते प्रत्यहं प्रायेण ब्रह्मचर्यकृत् ।। ५९ ॥ साधारणस्त्रीन परं स सुधीर्वयिष्यति । धर्मपत्नीरपि ब्रह्म चरितुं बोधयिष्यति ॥ ६०॥ मुनेस्तस्योपदेशेन जीवाजीवादितत्त्ववित् । आचार्य इव सोऽन्येषामपि बोधि प्रदास्यति ।। ६१ ।।
"Aho Shrutgyanam"