________________
ऽङ्कः]
मोहराजपराजयम् । प्रणम्य स्तुत्वा पर्युपास्य च सुचिरमेनामशङ्कितमनास्ततो निःसृत्य रम्यप्रदेशदर्शनाशया भ्राम्यग्नितस्ततः प्राप्तोऽस्मि प्रासाद्मकम् ।
राजा-ततस्ततः ? । कुबेरः-आरूढश्च तत्राद्राक्षमेकां निकाममधुराकृतिं दिव्यकन्यकाम् । राजा-तदसौ शून्यगृहे सुकुमारिकावाप्तिः।
कुबेर:-कृताभ्युत्थानादिश्च तया सविस्मयमप्राक्षम् 'भद्रे ! कात्वमसीति'। सा त्ववादीत् 'अत्र पातालतिलकनाम्नि नगरे पातालकेतुर्नाम विद्याधराधिराजो राज्यमन्वशात् । तस्य पातालसुन्दरीप्रियागर्भजां पातालचन्द्रिका नाम मां कन्यकां विद्धि । स च मे पिता प्रकृत्या पिशितलोलुपोऽभूत् । तन्निमित्तमनुदिनमनेकजन्तुवधाद्विविधानि पललानि संस्क्रियन्ते स्म । अन्यदा च सूपकारप्रमादादामिषं भक्षितवती बिडाली। भीतेने चानेनान्विष्यता दुराचारजातगर्भया कयापि स्त्रिया परित्यक्तस्तत्कालजातबालको व्यलोकि । स च संस्कृत्योपनीतो नृपतेरतिमनोज्ञतया प्रीतेन पृष्टोऽसौ राज्ञा । यथावदावेदितव्य. तिकरः प्रत्यहं महामांसरसवतीं निर्वतयितुमादिष्टश्च । प्रतिदिनं मनुजपलकव. लनाच राक्षसोऽजनि मजनकः । तेन च मां मजननी च मुक्त्वा भक्षितमिदमशेषं नगरम् । स च संप्रति कापि स्वाहारघटनाय गतोऽस्ति।
राजा-धिग दुरात्मनो मांसलोलुपताम् ।
कुबेरः-अथ सशपथमवस्थाप्य मामसौ गता कापि । क्षणाच तत्राजगाम तन्माता पातालसुन्दरी । तया चोक्तोऽहं 'पुत्र ! मत्पुत्र्याः पीडय पाणिम् । तवैकस्याभयं बलाद्याचितोऽस्ति मया स्वभर्जेति। 'ततः परिणीता मया पातालचन्द्रिका । जातसंबन्धः संबोधितः पातालकेतुः । अवतारितो जिनधमाध्वानम् । ग्राहितो मांसास्वादनविरतिम् । विमानस्थः सकलत्रश्चात्र समानीय मुक्तस्तेनाहमिति'। राजा-- निर्मूल्यं गणितं निजं परपरित्राणे तृणं प्राणितं
पाणौकृत्य नभश्चरीयमचिरात्कल्याणिनी प्रीणिता । १ B&C याधिरा' २ B & C °नानेना २ B & C दविर'
"Aho Shrutgyanam" |