________________
मन्त्रियशः पालविरचितं
[ तृतीयो
कुबेरः -- प्रिये ! अवतरावस्तावत् । मा महियोगकातरा किञ्चिदत्याहितं करिष्यत्यम्बा |
पातालचन्द्रिका – (१) अज्जउत्त ! एवं भोदु ।
कुबेरः —— तदेतन्मम सदनं यावद्वतरामि । (पुरोऽवलोक्य ) अये ! कथमत्र महाम् जनसमवायः ? । कथं चात्र चौलुक्यचक्रवर्ती विलोक्यते ? | मन्ये च मद्रविणग्रहणाय क्षोणिपतेरयं स्वयं गृहागमन परिस्पन्दः । भवतु तावत् । ( विमानादवतरति । )
सर्वे - ( सहसो पलक्ष्य ) कुबेर: कुबेर इति ।
६८
( कुबेर उपसृत्य राजानं प्रणमति । )
राजा - ( सप्रणयं ) स्वागतं भवत: ? ।
गुणश्रीःकुबेरः- -अम्ब ! प्रणमति कुबेरः । गुणश्रीः- ( ३ ) पुत्त ! अजरामरो भो । कुबेरः -अम्ब ! एषा वधूः प्रणमति ।
( पातालचन्द्रिका गुणश्रियः पादौ स्पृशति । ) गुणश्रीः- -(४) जादे ! अविधवा भोसु । राजा - श्रेष्ठिन् ! इत आस्यताम् । ( कुबेर उपविशति । )
राजा-भोः श्रेष्ठिन् ! कथय कथं वामदेवप्रकटितात्तादृशाद्दुर्गदेशादीदृशेन विमानेन पुनरस्मन्नगरमहाजनं सनाथतां नीतवानसि ? |
(२) दिट्टिया वडामि पशुज्जीविदस्स वच्छस्स दंसणेणं ति ।
कुबेरः -- देव ! निर्यामकोक्तनीत्या गत्वा तद्देवतागृहं कृतमातोद्यताडनम् । प्रविष्टेन चान्तश्चन्द्रकान्तमणिमयी भगवतश्चन्द्रप्रभस्य निरूपिता प्रतिमा ।
( १ ) आर्यपुत्र ! एवं भवतु ।
(२) दिष्ट्या वर्षे प्रत्युज्जीवितस्य वत्सस्य दर्शनेनेति ।
( ३ ) पुत्र ! अजरामरो भव ।
(४) जाते ! अविधवा भव ।
"Aho Shrutgyanam"